यः श्राद्धसमये दूरात्स्मृतोऽपि पितृमुक्तिदः । तं गयायां स्थितं साक्षान्नमामि श्रीगदाधरम्
पंथानं समतीत्य दुस्तरमिमं दूरादवीयस्तरं क्षुद्र व्याघ्रतरक्षुकंटकफणिप्रत्यार्थिभिः संकुलम् । आगत्य प्रथमव्ययं कृपणवाग्याचेज्जनः । कर्परीश्रीमद्वारिगदाधर प्रतिदिनं त्वां द्रष्टुमुत्कंठते
सर्वात्मन्निजदर्शनेन च गयाश्राद्धेन वै देवताः प्रीणन्विश्वमनीहवत्कथमिहौदासीन्यमालंबसे । किं ते सर्वदनिर्दयत्वमधुना किं वा प्रभुत्वं कलेः किं वा सत्वनिरीक्षणं नृषु चिरं किं वास्य सेवारुचिः
गदाधर मया श्राद्धं संचीर्णं त्वत्प्रसादतः । अनुजानीहि मां देव गमनाय गृहं प्रति
चतुर्णां देवतानां च स्तोत्रं स्वर्गार्थदायकम् । श्राद्धकाले पठेन्नित्यं स्नानकाले तु यः पठेत्
सर्वतीर्थसमं स्नानं श्रवणात्पठनाज्जपात् । प्रयागस्य च गंगाया यमुनायाः स्तुतेर्द्विज । श्रवणेन विनश्यंति दोषाश्चैव तु कर्मजाः
महादेवउवाच- शृणु नारद वक्ष्यामि माहात्म्यं तुलसीभवम् । यच्छ्रुत्वा मुच्यते पापादाजन्ममरणांतिकात्
पत्रं पुष्पं फलं मूलं शाखा त्वक्स्कंधसंज्ञितम् । तुलसी संभवं सर्वं पावनं मृत्तिकादिकम्
शरीरं दह्यते येषां तुलसीकाष्ठवह्निना । दत्वा च तुलसीकाष्ठं सर्वांगेषु मृतस्य वै
पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते । मरणे यस्य संप्राप्तं कीर्तनं स्मरणं हरेः
तुलसीदारुणा दाहो न तस्य पुनरावृतिः । यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि
दाहकाले भवेन्मुक्तिः कोटिपापायुतस्य च । गंगांभसाभिषेकेण यांति पुण्यानि पुण्यताम्
तुलसीकाष्ठमिश्राणि यांति दारूणि पुण्यताम् । तुलसीकाष्ठसंमिश्रा यावत्प्रज्वलते चिता
दह्यंति तस्य पापानि कल्पकोटिकृतानि वै । दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना
नयंति तं विष्णुदूता न च वै यमकिंकराः । जन्मकोटिसहस्रैस्तु मुक्तो याति जनार्दनम्
दह्यंते ये नरा लोके तुलसीकाष्ठवह्निना । तान्विमानस्थितान्देवाः क्षिपंति कुसुमांजलिम्
नृत्यंत्यप्सरसः सर्वा गीतं गायंति गायकाः । जायंते वीक्ष्य तं विष्णुः संतुष्टः शंभुना सह
गृहीत्वा तं करे शौरिर्गृहं नीत्वास्य चांगतः । मार्जयेत्सर्वपापानि पश्यतां त्रिदिवौकसाम्
महोत्सवं कारयित्वा जयशब्दपुरःसरम् । ज्वलते यत्र चाज्येन तुलसीकाष्ठपावकः
अग्न्यगारे श्मशाने वा दह्यते पातकं नृणाम् । होमं कुर्वंति ये विप्रास्तुलसीकाष्ठवह्निना । सिक्ते सिक्ते तिले वापि अग्निष्टोमफलं लभेत्
यो ददाति हरेर्धूपं तुलसीकाष्ठसंभवम् । शतक्रतुसमं पुण्यं लभते गोशतं फलम्
नैवेद्यं पच्यते यस्तु तुलसीकाष्ठवह्निना । मेरुतुल्यं भवेद्दत्तं तदन्नं केशवस्य हि
तुलसीपावकेनाथ यो दीपं कुरुते हरेः । दीपलक्षसहस्राणां पुण्यं स लभते फलम्
न तेन सदृशो लोके वैष्णवो भुवि दृश्यते । यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचंदनम्
स जायते कृपापात्रं विष्णोर्वाडवसत्तम
तुलसीदारुजातेन चंदनेन कलौ हरिम् । विलिप्य भक्तितो नित्यं रमते हरिसन्निधौ
तुलसीपंकलिप्तांगः कुरुते विष्णुपूजनम् । पूजाशतदिनैकाह्ना लभ्यते गोशतं फलम्
विलेपार्थे तु कृष्णस्य तुलसीकाष्ठचंदनम् । मंदिरे तिष्ठते यावत्तावत्पुण्यफलं शृणु
तिलप्रस्थाष्टकं दत्वा यत्पुण्यं प्राप्नुयान्नरः । तत्फलं जायते पुंसां प्रसादाच्चक्रपाणिनः
यो ददाति पितॄणां तु पिंडे तुलसिसंभवम् । दलं संजायते तृप्तिः पत्रे पत्रे शताब्दिका