दीयते विष्णुमेवापि तदनंतफलं स्मृतम् । यो हि यां देवतामिच्छेत्समाराधयितुं नरः
ब्राह्मणान्पूजयेद्यत्नात्स तस्यास्तोषयेत्ततः । द्विजानां वपुरास्थाय नित्यं तिष्ठंति देवताः
पूज्यंते ब्राह्मणा लाभे प्रतिमादिषु तैः क्वचित् । प्रतिमादिषु यत्नेन तस्मात्फलमभीप्सता
द्विजेषु देवता नित्यं पूजनीया विशेषतः । विभूतिकामः सततं पूजयेद्धि पुरंदरम्
ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः । आरोग्यकामोथ रविं धनकामो हुताशनम्
कर्म्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् । भोगकामस्तु शशिनं बलकामः समीरणम्
मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम् । यस्तु योगं तथा मोक्षमन्विच्छेऽज्ज्ञानमैश्वरम्
अर्चयेत विरूपाक्षं प्रयत्नेन सुरेश्वरम् । ये वांच्छंति महाभोगान्ज्ञानानि च महेश्वरम्
ते पूजयंति भूतेशं केशवं चापि भोगिनः । वारिदस्तृप्तिमाप्नोति जलदानं ततोधिकम्
तैलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् । भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः
गृहदाताग्र्यवेश्मानि रूप्यदो रूपमुत्तमम् । वासोदश्चंद्रसालोक्यमश्वदो यानमुत्तमम्
अन्नदाता श्रियं स्वेष्टां गोदो ब्राह्मणविष्टपम् । यानशय्याप्रदो भार्य्यामैश्वर्यमभयप्रदः
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मशाश्वतम् । धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत्
वेदविद्याविशिष्टेषु प्रेत्य स्वर्गं समश्नुते । गवां चान्नप्रदानेन सर्वपापैः प्रमुच्यते
इंधनानां प्रदानेन दीप्ताग्निर्जायते नरः । फलमूलानि पानानि शाकानि विविधानि च
प्रदद्याद्ब्राह्मणेभ्यस्तु मुदायुक्तः सदा भवेत् । औषधं स्नेहमाहारं रोगिणो रोगशांतये
ददानो रोगरहितः सुखी दीर्घायुरेव च । असिपत्रवनं मार्गं क्षुरधारासमन्वितम्
तीक्ष्णतापं च तरति छत्रोपानत्प्रदो नरः । यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता । अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः
संक्रांत्यादिषु कालेषु दत्तं भवति चाक्षयम् । प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च
दत्वा चाक्षयमाप्नोति नदीप्रस्रवणेषु च । दानधर्मात्परो धर्मो भूतानां नेह विद्यते
तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः । स्वर्गाय भूतिकामेन तथा पापोपशांतये
मुमुक्षुणा तु दातव्यं ब्राह्मणेभ्यस्तथान्वहम् । दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च
निवारयत्यधर्मात्मा तिर्यग्योनिं व्रजेत सः । यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्ब्राह्मणान्सुरान्
सर्वस्वमपहृत्यैनं राजा राष्ट्रात्प्रवासयेत् । यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः । न तस्मात्प्रतिगृह्णीयुः न वसेयुश्च तेन हि
आज्ञायित्वा स्वकाद्राष्ट्राद्राजा तं विप्रवासयेत् । पश्चात्सद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम्
सपूर्वाभ्यधिकः पापी नरके पच्यते नरः । स्वाध्यायवंतो ये विप्रा विद्यावंतो जितेंद्रियाः
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्द्विजोत्तमाः । प्रभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम्
न च मूर्खमवृत्तस्थं दशरात्रमुपोषितम् । सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति