शुक्लांबरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् । प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः । अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने
यत्किंचिद्देवदेवेशं दद्याच्चोद्दिश्य केशवम् । प्रीयतामीश्वरो विष्णुर्हृषीकेशः सनातनः
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम्
आराधयेद्द्विजमुखेन तस्यास्ति पुनर्भवः । कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये
स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः । प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम्
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् । द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः
अमावास्यां तथा भक्तैः पूजनीयस्त्रिविक्रमः । एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम्
अर्चयेद्ब्राह्मणमुखे स गच्छेत्परमं पदम् । एषा तिथिर्वैष्णवी स्याद्द्वादशी शुक्लपक्षतः
तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनम् । यत्किंचिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ
दीयते विष्णुमेवापि तदनंतफलं स्मृतम् । यो हि यां देवतामिच्छेत्समाराधयितुं नरः
ब्राह्मणान्पूजयेद्यत्नात्स तस्यास्तोषयेत्ततः । द्विजानां वपुरास्थाय नित्यं तिष्ठंति देवताः
पूज्यंते ब्राह्मणा लाभे प्रतिमादिषु तैः क्वचित् । प्रतिमादिषु यत्नेन तस्मात्फलमभीप्सता
द्विजेषु देवता नित्यं पूजनीया विशेषतः । विभूतिकामः सततं पूजयेद्धि पुरंदरम्
ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः । आरोग्यकामोथ रविं धनकामो हुताशनम्
कर्म्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् । भोगकामस्तु शशिनं बलकामः समीरणम्
मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम् । यस्तु योगं तथा मोक्षमन्विच्छेऽज्ज्ञानमैश्वरम्
अर्चयेत विरूपाक्षं प्रयत्नेन सुरेश्वरम् । ये वांच्छंति महाभोगान्ज्ञानानि च महेश्वरम्
ते पूजयंति भूतेशं केशवं चापि भोगिनः । वारिदस्तृप्तिमाप्नोति जलदानं ततोधिकम्
तैलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् । भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः
गृहदाताग्र्यवेश्मानि रूप्यदो रूपमुत्तमम् । वासोदश्चंद्रसालोक्यमश्वदो यानमुत्तमम्
अन्नदाता श्रियं स्वेष्टां गोदो ब्राह्मणविष्टपम् । यानशय्याप्रदो भार्य्यामैश्वर्यमभयप्रदः
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मशाश्वतम् । धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत्
वेदविद्याविशिष्टेषु प्रेत्य स्वर्गं समश्नुते । गवां चान्नप्रदानेन सर्वपापैः प्रमुच्यते
इंधनानां प्रदानेन दीप्ताग्निर्जायते नरः । फलमूलानि पानानि शाकानि विविधानि च
प्रदद्याद्ब्राह्मणेभ्यस्तु मुदायुक्तः सदा भवेत् । औषधं स्नेहमाहारं रोगिणो रोगशांतये
ददानो रोगरहितः सुखी दीर्घायुरेव च । असिपत्रवनं मार्गं क्षुरधारासमन्वितम्
तीक्ष्णतापं च तरति छत्रोपानत्प्रदो नरः । यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता । अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः
संक्रांत्यादिषु कालेषु दत्तं भवति चाक्षयम् । प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च