अहन्यहनि यत्किंचिद्दीयते नुपकारिणे । अनुद्दिश्यफलं तस्माद्ब्राह्मणाय तु नित्यकम्
यत्तु पापोपशांत्यर्थं दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम्
अपत्यविजयैश्वर्य सुखार्थं यत्प्रदीयते । दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिंतकैः
यदीश्वरस्य प्रीत्यर्थं ब्रह्मवित्सु प्रदीयते । चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम्
दानधर्मं निषेवेत पात्रमासाद्य शक्तितः । उपास्यते तु तत्पात्रं यत्तारयति सर्वतः
कुटुंबभुक्तिवसनाद्देयं यदतिरिच्यते । अन्यथा दीयते यद्वै न तद्दानं फलप्रदम्
श्रोत्रियाय कुलीनाय विनीताय तपस्विने । व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम्
यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये । स याति परमं स्थानं यत्र गत्वा न शोचति
इक्षुभिः संयुतां भूमिं यवगोधूमशालिनीम् । ददाति वेदविदुषे यः स भूयो न जायते
गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति । ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते
भूमिदानात्परं दानं विद्यते नेह किंचन । अन्नदानं तेन तुल्यं विद्यादानं ततोधिकम्
यो ब्राह्मणाय शांताय शुचये धर्मशीलिने । ददाति विद्यां विधिना ब्रह्मलोके महीयते
दद्यादहरहः स्वर्णं श्रद्धया ब्रह्मचारिणे । सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात्
गृहस्थायान्नदानेन फलमाप्नोति मानवः । अन्नमेवास्य दातव्यं दत्वाप्नोति परां गतिम्
वैशाख्यां पूर्णमास्यां तु ब्राह्मणान्सप्त पंच वा । उपोष्य विधिना शांतः शुचिः प्रयतमानसः
पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः । प्रीयतां धर्मराजेति यदा मनसि वर्त्तते
यावज्जीवं तु यत्पापं तत्क्षणादेव नश्यति । कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् । घृतान्नमुदकुंभं च वैशाख्यां तु विशेषतः
निर्द्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् । सुवर्णतिलयुक्तैस्तु ब्राह्मणान्सप्त पंच वा
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति । माघमासे तमिस्रे तु द्वादश्यां समुपोषितः
शुक्लांबरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् । प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः । अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने
यत्किंचिद्देवदेवेशं दद्याच्चोद्दिश्य केशवम् । प्रीयतामीश्वरो विष्णुर्हृषीकेशः सनातनः
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम्
आराधयेद्द्विजमुखेन तस्यास्ति पुनर्भवः । कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये
स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः । प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम्
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् । द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः
अमावास्यां तथा भक्तैः पूजनीयस्त्रिविक्रमः । एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम्
अर्चयेद्ब्राह्मणमुखे स गच्छेत्परमं पदम् । एषा तिथिर्वैष्णवी स्याद्द्वादशी शुक्लपक्षतः
तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनम् । यत्किंचिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ