कुरुरं च चकोरं च जालपादं च कोकिलम् । वायसान्खंजरीटांश्च श्येनं गृध्रं तथैव च
उलूकं चक्रवाकं च भासं पारावतं तथा । कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च
सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च । शृगालं मर्कटं चैव गर्द्दभं न च भक्षयेत्
न भक्षयेत्सर्पमृगाञ्छिखिनोन्यान्वनेचरान् । जलेचरान्स्थलचरान्प्राणिनश्चेति धारणा
गोधा कूर्मः शशः खड्गः सल्लकश्चेति सत्तमाः । भक्ष्यान्पंचनखान्नित्यं मनुराह प्रजापतिः
मत्स्यान्सशल्कान्भुंजीत मांसं रौरवमेव च । निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा
मयूरं तित्तिरं चैव कपोतं च कपिंजलम् । वार्ध्रीणसं बकं भक्ष्यं मीनं हंसं पराजितम्
शफरी सिंहतुंडं च तथा पाठीनरोहितौ । मत्स्याश्चैते समुद्दिष्टा भक्षणीया द्विजोत्तमाः
प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया । यथाविधि प्रयुक्तं च प्राणानामपि चात्यये
भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते । औषधार्थमशक्तो वा नियोगाद्यज्ञकारणात्
आमंत्रितश्च यः श्राद्धे दैवे वा मांसमुत्सृजेत् । यावंति पशुरोमाणि तावन्नरकमृच्छति
अदेयं वाप्यपेयं वा तथैवास्पृश्यमेव वा । द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः
तस्मात्सर्वप्रयत्नेन मद्यं नित्यं विवर्जयेत् । पीत्वा पतति कर्म्मभ्यस्त्वसंभाष्यो भवेद्द्विजः
भक्षयित्वाप्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः । नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः
तस्मात्परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः । अपेयानि च विप्रो वै तथा चेद्याति रौरवम्
इति श्रीपाद्मे महापुराणे स्वर्गखंडे भक्ष्याभक्ष्यनियमो नाम षट्पंचाशत्तमोऽध्यायः
व्यास उवाच- अथातः संप्रवक्ष्यामि दानधर्म्ममनुत्तमम् । ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम्
अर्थानामुचितं पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम्
यो ददाति विशिष्टेभ्यः श्रद्धया परया युतः । तद्वै दत्तमहं मन्ये शेषं कस्यापि रक्षति
नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते । चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम्
अहन्यहनि यत्किंचिद्दीयते नुपकारिणे । अनुद्दिश्यफलं तस्माद्ब्राह्मणाय तु नित्यकम्
यत्तु पापोपशांत्यर्थं दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम्
अपत्यविजयैश्वर्य सुखार्थं यत्प्रदीयते । दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिंतकैः
यदीश्वरस्य प्रीत्यर्थं ब्रह्मवित्सु प्रदीयते । चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम्
दानधर्मं निषेवेत पात्रमासाद्य शक्तितः । उपास्यते तु तत्पात्रं यत्तारयति सर्वतः
कुटुंबभुक्तिवसनाद्देयं यदतिरिच्यते । अन्यथा दीयते यद्वै न तद्दानं फलप्रदम्
श्रोत्रियाय कुलीनाय विनीताय तपस्विने । व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम्
यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये । स याति परमं स्थानं यत्र गत्वा न शोचति
इक्षुभिः संयुतां भूमिं यवगोधूमशालिनीम् । ददाति वेदविदुषे यः स भूयो न जायते
गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति । ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते