स्वमग्निं चैव हस्तेन स्पृशेन्नाप्सुचिरं वसेत् । न पक्षकेणोपधमेन्न शूर्पेण च पाणिना
मुखेनाग्निं समिंधीत मुखादग्निरजायत । परस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः
नैकश्चरेत्सदा विप्रः समुदायं च वर्जयेत् । न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम्
न पीडयेद्वा वस्त्राणि न देवायतने स्वपेत् । नैकोध्वानं प्रपद्येत नाधार्मिकजनै सह
न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा । नोपानद्वर्जितो वाथ जलादिरहितस्तथा
न वर्त्मनि चितिं वाममतिक्रामेत्क्वचिद्द्विजः । न निंदेद्योगिनः सिद्धान्व्रतिनो वा यतींस्तथा
देवतायतनं प्राज्ञा देवानां चैव सत्रिणाम् । नाक्रामेत्कामतश्छायां ब्राह्मणानां च गोरपि
स्वां तु नाक्रामयेच्छायां पतिताद्यैर्न रोगिभिः । नांगारभस्मकेशादिष्वधितिष्ठेत्कदाचन
वर्जयेन्मार्जनी रेणुं स्नानवस्त्र घटोदकम् । न भक्षयेदभक्ष्याणि नापेयं च पिबेद्द्विजः
व्यास उवाच- नाद्याच्छूद्रस्य विप्रोन्नं मोहाद्वा यदि कामतः । स शूद्रयोनिं व्रजति यस्तु भुंक्ते त्वनापदि
षण्मासान्यो द्विजो भुंक्ते शूद्रस्यान्नं विगर्हितम् । जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते
ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्
राजान्नं वर्तकान्नं च षंढान्नं चर्म्मकारिणाम् । गणान्नं गणिकान्नं च षडन्नं च विवर्जयेत्
चक्रोपजीवि रजक तस्करध्वजिनां तथा । गांधर्वलोहकारान्नं मृतकान्नं विवर्जयेत्
कुलाल चित्रकारान्नं वार्धुषेः पतितस्य च । पौनर्भवच्छत्रिकयोरभिशप्तस्य चैव हि
सुवर्णकार शैलूष व्याध वंध्यातुरस्य च । चिकित्सकस्य चैवान्नं पुंश्चल्या दंडकस्य च
स्तेन नास्तिकयोरन्नं देवतानिंदकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः
पापीयोन्नं च संघान्नं शस्त्राजीवस्य चैव हि । भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम्
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं मृतकस्य च । वृथापाकस्य चैवान्नं शावान्नं चातुरस्य च
अप्रजानां तु नारीणां कृतघ्नस्य तथैव च । कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा
शौंडान्नं घांटिकान्नं च भिषजामन्नमेव च । विद्वत्प्रजननस्यान्नं परिवेत्रन्नमेव च
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः । अवज्ञातं चावधूतं सरोषं विस्मयान्वितम्
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् । दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम्
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् । अर्द्धका कुलं मित्रं च गोपालो वाहनापि तौ
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् । कुशीलवः कुंभकश्च क्षेत्रकर्मक एव च
एते शूद्रेषु भोज्यान्ना दृष्ट्वा स्वल्पगुणं बुधैः । पायसं स्नेहपक्वं च गोरसश्चैव सक्तवः
पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजातिभिः । वृंताकं नालिकाशाकं कुसुंभं भस्मकं तथा
पलांडुं लशुनं शुक्तं निर्य्यासं चैव वर्जयेत् । छत्राकं विड्वराहं च स्विन्नं पीयूषमेव च
विलयं विमुखं चैव कोरकाणि विवर्जयेत् । गृंजनं किंशुकं चैव कूष्मांडं च तथैव च