व्यतिक्रामेन्न स्रवंतीं नाप्सु मैथुनमाचरेत् । चैत्यवृक्षं न वै छिंद्यान्नाप्सु ष्ठीवनमाचरेत्
नास्थिभस्मकपालानि न केशान्न च कंटकान् । तुषांगारकरीषं वा नाधितिष्ठेत्कदाचन
न चाग्निं लंघयेद्धीमान्नोपदध्यादधः क्वचित् । न चैनं पादतः कुर्य्याच्छूर्पेण न धमेद्बुधः
न वृक्षमवरोहेत नावेक्षेताशुचिः क्वचित् । अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत्तथा
सुहृन्मरणमात्रं वा स्वयं न श्रावयेत्परान् । अपण्यं कूटपण्यं वा विक्रयेन प्रयोजयेत्
न वह्निं मुखनिःश्वासैर्ज्वालयेन्नाशुचिर्बुधः । पुण्यस्थानोदकस्थाने सीमांतं वाहयेन्न तु
न भिंद्यात्पूर्वसमयमभ्युपेतं कदाचन । परस्परं पशून्व्याघ्रान्पक्षिणो न च योधयेत्
परबाधां न कुर्वीत जलवातातपादिभिः । कारयित्वा सुकर्माणि गुरून्पश्चान्न वंचयेत्
सायंप्रातर्गृहद्वारान्रक्षार्थं परिघट्टयेत् । बहिर्माल्यं सुगंधिं वा भार्यया सह भोजनम्
विगृह्य वादं कृत्वा वा प्रवेशं च विवर्जयेत् । नखादन्ब्राह्मणस्तिष्ठेन्न जल्पेद्वा हसेद्बुधः
स्वमग्निं चैव हस्तेन स्पृशेन्नाप्सुचिरं वसेत् । न पक्षकेणोपधमेन्न शूर्पेण च पाणिना
मुखेनाग्निं समिंधीत मुखादग्निरजायत । परस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः
नैकश्चरेत्सदा विप्रः समुदायं च वर्जयेत् । न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम्
न पीडयेद्वा वस्त्राणि न देवायतने स्वपेत् । नैकोध्वानं प्रपद्येत नाधार्मिकजनै सह
न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा । नोपानद्वर्जितो वाथ जलादिरहितस्तथा
न वर्त्मनि चितिं वाममतिक्रामेत्क्वचिद्द्विजः । न निंदेद्योगिनः सिद्धान्व्रतिनो वा यतींस्तथा
देवतायतनं प्राज्ञा देवानां चैव सत्रिणाम् । नाक्रामेत्कामतश्छायां ब्राह्मणानां च गोरपि
स्वां तु नाक्रामयेच्छायां पतिताद्यैर्न रोगिभिः । नांगारभस्मकेशादिष्वधितिष्ठेत्कदाचन
वर्जयेन्मार्जनी रेणुं स्नानवस्त्र घटोदकम् । न भक्षयेदभक्ष्याणि नापेयं च पिबेद्द्विजः
व्यास उवाच- नाद्याच्छूद्रस्य विप्रोन्नं मोहाद्वा यदि कामतः । स शूद्रयोनिं व्रजति यस्तु भुंक्ते त्वनापदि
षण्मासान्यो द्विजो भुंक्ते शूद्रस्यान्नं विगर्हितम् । जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते
ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्
राजान्नं वर्तकान्नं च षंढान्नं चर्म्मकारिणाम् । गणान्नं गणिकान्नं च षडन्नं च विवर्जयेत्
चक्रोपजीवि रजक तस्करध्वजिनां तथा । गांधर्वलोहकारान्नं मृतकान्नं विवर्जयेत्
कुलाल चित्रकारान्नं वार्धुषेः पतितस्य च । पौनर्भवच्छत्रिकयोरभिशप्तस्य चैव हि
सुवर्णकार शैलूष व्याध वंध्यातुरस्य च । चिकित्सकस्य चैवान्नं पुंश्चल्या दंडकस्य च
स्तेन नास्तिकयोरन्नं देवतानिंदकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः
पापीयोन्नं च संघान्नं शस्त्राजीवस्य चैव हि । भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम्
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं मृतकस्य च । वृथापाकस्य चैवान्नं शावान्नं चातुरस्य च