नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः । नाभिभाषेत च परमुच्छिष्टो वावगुंठितः
न पश्येत्प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् । न तैलोदकयोश्छायां न पंक्तिं भोजने सति
न मुक्तबंधनं पश्येन्नोन्मत्तं गजमेव वा । नाश्नीयाद्भार्यया सार्द्धं नैनामीक्षेत चाश्नतीम्
क्षुवतीं जृंभमाणां वा नासनस्थां यथासुखम् । नोदके चात्मनो रूपं शुभं वाशुभमेव वा
न लंघयेच्च मतिमान्नाधितिष्ठेत्कदाचन । न शूद्राय मतिं दद्यात्कृसरं पायसं दधि
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः । न चैवास्मै व्रतं ब्रूयान्न च धर्मं वदेद्बुधः
न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत् । लोभं दंभं तथा शाठ्यं ह्यसूयां ज्ञानकुत्सनम्
ईर्ष्यां मदं तथाशोकं मोहं च परिवर्जयेत् । न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत्
न हीनानुपसेवेत न च तृष्णामतिः क्वचित् । नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत्
न विशिष्टमसत्कुर्यान्नात्मानं वासनाद्बुधः । न नखेन लिखेद्भूमिं गां च संवेशयन्नहि
न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतान् । आवासे भोजने वापि न त्यजेत्सहयायिनम्
नावगाहेदपो नग्नो वह्निं नातिव्रजेत्तथा । शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत्
न सर्प शस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् । रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत्
न पाणि पाद वाङ्नेत्र चापल्यं समुपाश्रयेत् । न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित्
न चांगनखवाद्यं वै कुर्यान्नांजलिना पिबेत् । नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन
न शातयेदिष्टिकाभिर्मूलानि च फलानि च । न म्लेच्छभाषणं शिक्षेन्नाकर्षेच्च पदासनम्
नखभेदनमास्फोटं छेदनं वा विलेखनम् । कुर्य्याद्विमर्द्दनं धीमान्नाकस्मादेव निष्फलम्
नोत्संगे भक्षयेद्भक्ष्यं वृथा चेष्टां न चाचरेत् । न नृत्येदथवा गायेन्न वादित्राणि वादयेत्
न संहताभ्यां पाणिभ्यां कंडूयेदात्मनः शिरः । न लौकिकैस्तवैर्देवांस्तोषयेद्वाक्पतेरपि
नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् । नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत्
न गच्छंस्तु पठेद्वापि न चैव स्वशिरः स्पृशेत् । न दंतैर्नखरोमाणि च्छिंद्यात्सुप्तं न बोधयेत्
नाबालातपमासेवेत्प्रेतधूमं विवर्जयेत् । नैव स्वप्याच्छून्यगेहे स्वयं नोपानहौ हरेत्
नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् । न पादक्षालनं कुर्यात्पादेनैव कदाचन
नाग्नौ प्रतापयेत्पादौ न कांस्ये धावयेद्बुधः । नाभिप्रसारयेद्देवं ब्राह्मणान्गामथापि वा
वाय्वग्निनृपविप्रान्वा सूर्यं वा शशिनं प्रति । अशुद्धः शयनं पानं स्वाध्यायं स्नान भोजनम्
बहिर्निष्क्रमणं चैव न कुर्वीत कदाचन । स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम्
उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् । न स्पृशेत्पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलान्
न चालनं पदा वापि न देवप्रतिमां स्पृशेत् । नाशुद्धोग्निं परिचरेन्न देवान्कीर्तयेदृषीन्
नावगाहेदगाधांबु धावयेन्नाऽनिमित्ततः । न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेण वा जलम्
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् । अमेध्यालिप्तमर्हं वा लोहितं वा विषाणि वा