यजनाध्यापने योनिस्तथैव सहभोजनम् । सहाध्यायस्तु दशमः सहयाजनमेव च
एकादश समुद्दिष्टा दोषाः सांकर्यसंस्थिताः । समीपे चाप्यवस्थानात्पापं संक्रमते नृणाम्
तस्मात्सर्वप्रयत्नेन सांकर्य्यं परिवर्जयेत् । एकपंक्त्युपविष्टा ये न स्पृशंति परस्परम्
भस्मना कृतमर्य्यादा न तेषां संकरो भवेत् । अग्निना भस्मना चैव सलिलेन विलेखतः
द्वारेण स्तंभमार्गेण षड्भिः पंक्तिर्विभिद्यते । न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम्
परक्षेत्रे गां चरंतीं न चाचक्षीत कर्हिचित् । न संवसेत्सूचकेन न कं वै मर्मणि स्पृशेत्
न सूर्यपरिवेषं वा नेंद्रचापं पराह्निकम् । परस्मै कथयेद्विद्वान्शशिनं वाथ कांचनम्
न कुर्याद्बहुभिः सार्द्धं विरोधं बंधुभिस्तथा । आत्मनः प्रतिकूलानि परेषां न समाचरेत्
तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत् । नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः
न देवगुरुविप्राणां दीयमानं तु वारयेत् । न चात्मानं प्रशंसेद्वा परनिंदां च वर्जयेत्
वेदनिंदां देवनिंदां प्रयत्नेन विवर्जयेत् । यस्तु देवानृषींश्चैव वेदान्वा निंदते द्विजः
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः । निंदयेद्वा गुरुं देवं वेदं वासोपबृंहणम्
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः । तूष्णीमासीत निंदायां न ब्रूयात्किंचिदुत्तरम्
कर्णौ पिधाय गंतव्यं न चैनमवलोकयेत् । वर्ज्जयेद्वै रहस्यानि परेषां गर्हणं बुधः
विवादं स्वजनैः सार्द्धं नकुर्य्याद्वै कदाचन । न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमः
सत्येन तुल्यो दोषः स्यादसत्याद्दोषवान्भवेत् । नृणां मिथ्याभिशस्तानां पतंत्यश्रूणि रोदनात्
तानि पुत्रान्पशून्घ्नंति तेषां मिथ्याभिशंसिनाम् । ब्रह्महत्या सुरापाने स्तेये गुर्वंगनागमे
दृष्टं वै शोधनं वृद्धैर्नास्ति मिथ्याभिशंसने । नेक्षेतोद्यंतमादित्यं शशिनं वाऽनिमित्ततः
नास्तं यांतं न वारिस्थं नोपस्पृष्टं न मध्यगम् । तिरोहितं समीक्षेत नादर्शाद्यनुगामिनम्
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम्
नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः । नाभिभाषेत च परमुच्छिष्टो वावगुंठितः
न पश्येत्प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् । न तैलोदकयोश्छायां न पंक्तिं भोजने सति
न मुक्तबंधनं पश्येन्नोन्मत्तं गजमेव वा । नाश्नीयाद्भार्यया सार्द्धं नैनामीक्षेत चाश्नतीम्
क्षुवतीं जृंभमाणां वा नासनस्थां यथासुखम् । नोदके चात्मनो रूपं शुभं वाशुभमेव वा
न लंघयेच्च मतिमान्नाधितिष्ठेत्कदाचन । न शूद्राय मतिं दद्यात्कृसरं पायसं दधि
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः । न चैवास्मै व्रतं ब्रूयान्न च धर्मं वदेद्बुधः
न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत् । लोभं दंभं तथा शाठ्यं ह्यसूयां ज्ञानकुत्सनम्
ईर्ष्यां मदं तथाशोकं मोहं च परिवर्जयेत् । न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत्
न हीनानुपसेवेत न च तृष्णामतिः क्वचित् । नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत्
न विशिष्टमसत्कुर्यान्नात्मानं वासनाद्बुधः । न नखेन लिखेद्भूमिं गां च संवेशयन्नहि