जनापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम् । गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया
कुलान्यकुलतां यांति यानि हीनानि धर्म्मतः । कुविचारैः क्रियालोपैर्वेदानध्ययनेन च
कुलान्यकुलतां यांति ब्राह्मणाऽतिक्रमेण च । अनृतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात्
अगोत्रधर्म्माचरणात्क्षिप्रं नश्यति वै कुलम् । अश्रोत्रियेषु दानाच्चा वृषलेषु तथैव च
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् । अधार्मिकैर्वृते ग्रामे न व्याधिबहुले वसेत्
शूद्रराज्ये च न वसेन्न पाखंडजनैर्वृते । हिमवद्विंध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम्
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः । कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः
पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्द्विजः । अर्धक्रोशं नदीकूलं वर्जयित्वा द्विजोत्तमः
नान्यत्र निवसेत्पुण्यं नांत्यजग्रामसन्निधौ । न संवसेच्च पतितैर्न चांडालैर्न पुल्कसैः
न मूर्खैर्नावलिप्तैश्च नान्यैर्जायावसायिभिः । एकशय्यासने पंक्तिर्भांडे पक्वान्नमिश्रणम्
यजनाध्यापने योनिस्तथैव सहभोजनम् । सहाध्यायस्तु दशमः सहयाजनमेव च
एकादश समुद्दिष्टा दोषाः सांकर्यसंस्थिताः । समीपे चाप्यवस्थानात्पापं संक्रमते नृणाम्
तस्मात्सर्वप्रयत्नेन सांकर्य्यं परिवर्जयेत् । एकपंक्त्युपविष्टा ये न स्पृशंति परस्परम्
भस्मना कृतमर्य्यादा न तेषां संकरो भवेत् । अग्निना भस्मना चैव सलिलेन विलेखतः
द्वारेण स्तंभमार्गेण षड्भिः पंक्तिर्विभिद्यते । न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम्
परक्षेत्रे गां चरंतीं न चाचक्षीत कर्हिचित् । न संवसेत्सूचकेन न कं वै मर्मणि स्पृशेत्
न सूर्यपरिवेषं वा नेंद्रचापं पराह्निकम् । परस्मै कथयेद्विद्वान्शशिनं वाथ कांचनम्
न कुर्याद्बहुभिः सार्द्धं विरोधं बंधुभिस्तथा । आत्मनः प्रतिकूलानि परेषां न समाचरेत्
तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत् । नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः
न देवगुरुविप्राणां दीयमानं तु वारयेत् । न चात्मानं प्रशंसेद्वा परनिंदां च वर्जयेत्
वेदनिंदां देवनिंदां प्रयत्नेन विवर्जयेत् । यस्तु देवानृषींश्चैव वेदान्वा निंदते द्विजः
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः । निंदयेद्वा गुरुं देवं वेदं वासोपबृंहणम्
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः । तूष्णीमासीत निंदायां न ब्रूयात्किंचिदुत्तरम्
कर्णौ पिधाय गंतव्यं न चैनमवलोकयेत् । वर्ज्जयेद्वै रहस्यानि परेषां गर्हणं बुधः
विवादं स्वजनैः सार्द्धं नकुर्य्याद्वै कदाचन । न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमः
सत्येन तुल्यो दोषः स्यादसत्याद्दोषवान्भवेत् । नृणां मिथ्याभिशस्तानां पतंत्यश्रूणि रोदनात्
तानि पुत्रान्पशून्घ्नंति तेषां मिथ्याभिशंसिनाम् । ब्रह्महत्या सुरापाने स्तेये गुर्वंगनागमे
दृष्टं वै शोधनं वृद्धैर्नास्ति मिथ्याभिशंसने । नेक्षेतोद्यंतमादित्यं शशिनं वाऽनिमित्ततः
नास्तं यांतं न वारिस्थं नोपस्पृष्टं न मध्यगम् । तिरोहितं समीक्षेत नादर्शाद्यनुगामिनम्
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम्