नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः । न धर्मवर्जितं काममर्थं वा मनसा स्मरेत्
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् । धर्मो हि भगवान्देवो गतिः सर्वेषु जंतुषु
भूतानांप्रियकारीस्यान्नपरद्रो हकर्मधीः । न वेददेवतानिंदां कुर्य्यात्तैश्च न संवसेत्
यस्त्विमं नियतो मर्त्यो धर्माध्यायं पठेच्छुचिः । अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुःपंचाशत्तमोऽध्यायः
व्यास उवाच- न हिंस्यात्सर्वभूतानि नानृतं वावदेत्क्वचित् । नाहितं नाप्रिंयं वाच्यं न स्तेनः स्यात्कदाचन
तृणं वा यदि वा शाकं मृदं वा जलमेव च । परस्यापहरञ्जंतुर्नरकं प्रतिपद्यते
न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि । न चान्यस्मादशक्तश्चेन्निंदितान्वर्जयेद्बुधः
नित्यं याचनको न स्यात्पुनस्तं नैव याचयेत् । प्राणानपहरत्येवं याचकस्तस्य दुर्मतेः
न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः । ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । देवस्वं चापि यत्नेन सदा परिहरेत्ततः
पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम् । अदत्तानि च न स्तेयं मनुः प्राह प्रजापतिः
गृहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजः । नैकस्मादेव नियतमननुज्ञाय केवलम्
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः । धर्मार्थं केवलं प्राहुरन्यथा पतितो भवेत्
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथिस्थितैः । क्षुधितैर्नान्यथा विप्रा धर्मादिभिरिति स्थितिः
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं व्यागुह्य कुर्वन्स्त्रीशूद्र दंभनम्
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः । छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति
अलिंगी लिंगिवेषेण यो वृत्तिमुपतिष्ठति । सलिगिंनो हरेदेनस्तिर्यग्योनौ च जायते
याचनं योनिसंबंधं सहवासं च भाषणम् । कुर्वाणः पतते नित्यं तस्माद्यत्नेन वर्जयेत्
देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च । देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः
जनापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम् । गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया
कुलान्यकुलतां यांति यानि हीनानि धर्म्मतः । कुविचारैः क्रियालोपैर्वेदानध्ययनेन च
कुलान्यकुलतां यांति ब्राह्मणाऽतिक्रमेण च । अनृतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात्
अगोत्रधर्म्माचरणात्क्षिप्रं नश्यति वै कुलम् । अश्रोत्रियेषु दानाच्चा वृषलेषु तथैव च
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् । अधार्मिकैर्वृते ग्रामे न व्याधिबहुले वसेत्
शूद्रराज्ये च न वसेन्न पाखंडजनैर्वृते । हिमवद्विंध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम्
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः । कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः
पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्द्विजः । अर्धक्रोशं नदीकूलं वर्जयित्वा द्विजोत्तमः
नान्यत्र निवसेत्पुण्यं नांत्यजग्रामसन्निधौ । न संवसेच्च पतितैर्न चांडालैर्न पुल्कसैः
न मूर्खैर्नावलिप्तैश्च नान्यैर्जायावसायिभिः । एकशय्यासने पंक्तिर्भांडे पक्वान्नमिश्रणम्