इत्याकलय्य सकलं भूपालः श्रद्धयान्वितः । गीतामभ्यस्य सकलामवाप परमां गतिम्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये अष्टाशीत्यधिकशततमोऽध्यायः
ईश्वर उवाच। प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके । गीता पंचदशाध्यायमाहात्म्यमवधारय
कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः । यस्यासिधारया संख्ये देवासंघा वधीकृताः
यदीय मत्तमातंग दानधाराजलैरिला । निदाघेपि च सेहेतां रविसंतापवेदनाम्
संक्रंदनपरित्रस्ता यदीय शरणं गताः । रेजिरे करिणो मत्ताश्चलंतः पर्वता इव
मत्तमातंगचीत्कारप्रतिस्वनमिवादरात् । यस्य गोपायतः शैला व्याहरंति कृपावतः
यदीय धावत्तुरगक्षुरसंघातजर्जरम् । नाभूच्चित्रं कथंकारं गतखंडं धरातलम्
पुनरुज्वलयांचक्रे महाभाष्यं फणीश्वरः
तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः । नाम्ना सरभभेरुंडः प्रचंडभुजमंडलः
भांडारेण तुरंगैश्च भटैर्वीररसोद्भवैः । समान एव भूपालदुर्गैरत्यंतदुर्गमैः
स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः । निहत्य वसुधापालं बलात्साकं कुमारकैः
कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षया । विषूचिकामयादाशु परासुः समजायत
कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा । तेजस्वी तुरगो जातः सिंधुदेशे कृशोदरिः
मूलेन बहुना क्रीत्वा हयतत्वविदा ततः । बहुयत्नवता नीतः केनचिद्वैश्यसूनुना
राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम् । कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन्
स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतः । राज्ञोद्वारिस्थितस्तत्र प्रतीक्षंस्तत्समागमम्
ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः । किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत
देव त्रिजगतीरत्नमिति मत्वा तुरंगमः । मया नियुतमूल्येन बहुना साधुलक्षणः
ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम् । समादिदेश वणिजमश्वोऽत्र नीयतामिति
शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम् । शूराणामपि चेतांसि मुहुरुत्साहयन्महान्
अखंडमेदिनीवेगबहुसंक्रमणार्जितम् । लालाफेनछलेनासौ वमन्शुभ्रतरं यशः
उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः । विवृण्वन्नति तेजस्वी ह्रियेव नतकंधरः
चामरैरिंदुधवलैर्वीज्यमानो निरंतरम् । दुग्धांभोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव
नीलातपत्रयुगलं घनच्छायतुलश्रिया । बिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम्
मेदिनीमंडलस्पर्श संक्रांतमिव पावकम् । मुहुरुद्धरयन्धुन्वन्बंधुरं कंधरातटम्
दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम् । हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः
सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः । रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः
आनीतो वणिजा वाजी राज्ञा च समदृश्यत । बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः
यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः । जग्राह तुरगं वेगादसीमानंदनिर्भरः