कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति । निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः । अंतर्धाय महीं काष्टैः पत्रैर्लोष्टतृणेन वा
प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम् । छायाकूपनदीगोष्ठचैत्यांभः पथि भस्मसु
अग्नौ चैव श्मशाने च विण्मूत्रं न समाचरेत् । न गोमयेन काष्ठे वा महावृक्षेऽथ शाद्वले
न तिष्ठन्न च निर्वासा न च पर्वतमंडले । न जीर्णदेवायतने वल्मीके न कदाचन
न ससत्वेषु गर्तेषु न गच्छन्न समाचरेत् । तुषांगारकपालेषु राजमार्गे तथैव च
न क्षेत्रे न बिले वापि न तीर्थे न चतुष्पथे । नोद्यानेऽपासमीपे वा नोषरे नगराशये
न सोपानत्पादुको वा छत्री वा नांतरिक्षके । न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम्
न देवदेवालययोरपामपि कदाचन । न ज्योतींषि निरीक्षन्वानवाप्रतिमुखोथ वा
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च । आहृत्य मृत्तिकां कूलाल्लेपगंधापकर्षणीम्
कुर्यादतंद्रितः शौचं विशुद्धैरुद्धृतोदकैः । नाहरेन्मृतिकां विप्रः पांशुलां न सकर्दमाम्
न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च । न देवायतनात्कूपाद्धाम्नो न च जलात्तथा
उपस्पृशेत्ततो नित्यं पूर्वोक्तेन विधानतः
इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथने। द्विपंचाशत्तमोऽध्यायः
व्यास उवाच- एवं दंडादिभिर्युक्तः शौचाचारसमन्वितः । आहूतोध्यापनं कुर्याद्वीक्ष्यमाणो गुरोर्मुखम्
नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः
प्रतिश्रवणसंभाषे शयानो न समाचरेत् । आसीनो न च भुंजानो न तिष्ठेन्न पराङ्मुखः
नीचैः शय्यासनं चास्य सर्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्विषयेन यथेष्टासनो भवेत्
नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम्
गुरोर्यत्र परीवादो निंदा वापि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गंतव्यं वा ततोऽन्यतः
दूरस्थो नार्चयेदेनं न क्रुद्धो नांतिके स्त्रियः । न चैवास्योत्तरं ब्रूयात्स्थितो नासीत सन्निधौ
उदकुंभं कुशान्पुष्पं समिधोऽस्याहरेत्सदा । मार्जनं लेपनं नित्यमंगानां वै समाचरेत्
नास्य निर्माल्यशयनं पादुकोपानहावपि । आक्रामेदासनं चास्य च्छायादीन्वा कदाचन
साधयेद्दंतकाष्ठादींल्लब्धं चास्मै निवेदयेत् । अनापृच्छ्य न गंतव्यं भवेत्प्रियहिते रतः
न पादौ सारयेदस्य सन्निधाने कदाचन । जृंभितं हसितं चैव कंठप्रावरणं तथा
वर्जयेत्सन्निधौ नित्यमंगस्फोटनमेव च । यथाकालमधीयीत यावन्न विमना गुरुः
आसीनोऽधो गुरोः पार्श्वे सेवां च सुसमाहितः । आसने शयने याने नैव तिष्ठेत्कदाचन
धावंतमनुधावेत गच्छंतमनुगच्छति । गोश्वोष्ट्रयानप्रासादे तथाधोविष्टरेषु च
आसीत गुरुणा सार्द्धं शिलाफलक नौषु च । जितेंद्रियः स्यात्सततं वश्यात्माक्रोधनः शुचिः
प्रयुंजीत सदा वाचं मधुरां हितकारिणीम् । गंधमाल्यं रसं कल्पं शुक्तिं प्राणिविहिंसनम्