न पाणिक्षुभिताभिर्वा न बहिर्गंध एव वा । हृद्गाभिः पूयते विप्रः कंठ्याभिः क्षत्रियः शुचिः
प्राशिताभिस्तथा वैश्यः स्त्रीशूद्रौ स्पर्शतोंऽततः । अंगुष्ठमूलांतरतो रेखायां ब्राह्ममुच्यते
अंतरांगुष्ठदेशिन्यैः पितॄणां तीर्थमुच्यते । कनिष्ठामूलतः पश्चात्प्राजापत्यं प्रचक्षते
अंगुल्यग्रं स्मृतं दैवं तदेवार्षं प्रकीर्तितम् । मूलेन दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतम्
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति । ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत्
होमयेद्वाथ दैवेन न तु पित्र्येण वै द्विजाः । त्रिःप्राश्नीयादपः पूर्वं ब्राह्मेण प्रयतस्ततः
संमृज्यांगुष्ठमूलेन मुखं वै समुपस्पृशेत् । अंगुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः
तर्जन्यंगुष्ठयोगेन स्पृशेन्नासापुटद्वयम् । कनिष्ठांगुष्ठयोगेन श्रवणे समुस्पृशेत्
सर्वासामथयोगेन हृदयं तु तनवा । स्पृशेद्वै शिरसस्तद्वदंगुष्ठेनांसकद्वयम्
त्रिःप्राश्नीयाद्यदंभस्तु प्रीतास्तेनास्य देवताः । ब्रह्माविष्णुर्महेशश्च भवंतीत्यनुशुश्रुम
गंगा च यमुना चैव प्रीयेते परिमार्जनात् । संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ
नासत्यदस्रौ प्रीयेते स्पृशेन्नासापुटद्वयम् । कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानिलानलौ
संस्पृष्टे हृदये चास्य प्रीयंते सर्वदेवताः । मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत्
नोच्छिष्टं कुर्वते वक्त्रे विप्रुषोंगे लगंति याः । दंतवद्दंतलग्नेषु जिह्वास्पर्शे शुचिर्भवेत्
स्पृशंति बिंदवः पादौ य आचामयतः परान् । भूमिपांशुसमा ज्ञेया न तैरस्पृश्यता भवेत्
मधुपर्के च सोमे च तांबूलस्य च भक्षणे । फलमूले चेक्षुदंडेन दोषं प्राह वै मनुः
प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः । भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत्
तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः । भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत्
यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः । अनिधायैव तद्द्रव्यं भूमौ त्वशुचितामियात्
वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याचमेदिह । अरण्ये निर्जने रात्रौ चौरव्याघ्राकुले पथि
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति । निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः । अंतर्धाय महीं काष्टैः पत्रैर्लोष्टतृणेन वा
प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम् । छायाकूपनदीगोष्ठचैत्यांभः पथि भस्मसु
अग्नौ चैव श्मशाने च विण्मूत्रं न समाचरेत् । न गोमयेन काष्ठे वा महावृक्षेऽथ शाद्वले
न तिष्ठन्न च निर्वासा न च पर्वतमंडले । न जीर्णदेवायतने वल्मीके न कदाचन
न ससत्वेषु गर्तेषु न गच्छन्न समाचरेत् । तुषांगारकपालेषु राजमार्गे तथैव च
न क्षेत्रे न बिले वापि न तीर्थे न चतुष्पथे । नोद्यानेऽपासमीपे वा नोषरे नगराशये
न सोपानत्पादुको वा छत्री वा नांतरिक्षके । न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम्
न देवदेवालययोरपामपि कदाचन । न ज्योतींषि निरीक्षन्वानवाप्रतिमुखोथ वा
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च । आहृत्य मृत्तिकां कूलाल्लेपगंधापकर्षणीम्