आचामेदश्रुपाते वा लोहितस्य तथैव च । भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः
आगतो वाचमेत्सुप्त्वा सकृत्सकृदथान्यतः । अग्नेर्गवामथालंभे स्पृष्ट्वा प्रयतमेव वा
स्त्रीणामथात्मनः स्पर्शे नीलद्यं वा परिधाय च । उपस्पर्शेज्जलं वार्तं तृणं वा भूमिमेव च
केशानां चात्मनः स्पर्शे वाससः स्खलितस्य च । अनुष्णाभिरकेशाभिरदुष्टाभिश्च धर्मतः
शौचेऽप्सु सर्वदा चामेदासीनः प्रागुदङ्मुखः । शिरः प्रावृत्य कंठं वा मुक्तकेशशिखोऽपि वा
अकृत्वा पादयोः शौचं मार्गतो न शुचिर्भवेत् । सोपानत्कोपानस्थो वा नोष्णीषी चाचमेद्बुधः
न चैव वर्षधाराभिर्न तिष्ठन्नुद्धृतोदकैः । नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः
न पादुकासनस्थो वा बहिर्जानुरथापि वा । न जल्पन्न हसन्प्रेक्षन्शयानस्तल्प एव च
नाविक्षिताभिः फेनाद्यैरुपेताभिरथापि वा । शूद्राशुचिकरोन्मुक्तैर्नक्षाराभिस्तथैव च
न चैवांगुलिभिः शब्दं न कुर्यान्नान्यमानसः । न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः
न पाणिक्षुभिताभिर्वा न बहिर्गंध एव वा । हृद्गाभिः पूयते विप्रः कंठ्याभिः क्षत्रियः शुचिः
प्राशिताभिस्तथा वैश्यः स्त्रीशूद्रौ स्पर्शतोंऽततः । अंगुष्ठमूलांतरतो रेखायां ब्राह्ममुच्यते
अंतरांगुष्ठदेशिन्यैः पितॄणां तीर्थमुच्यते । कनिष्ठामूलतः पश्चात्प्राजापत्यं प्रचक्षते
अंगुल्यग्रं स्मृतं दैवं तदेवार्षं प्रकीर्तितम् । मूलेन दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतम्
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति । ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत्
होमयेद्वाथ दैवेन न तु पित्र्येण वै द्विजाः । त्रिःप्राश्नीयादपः पूर्वं ब्राह्मेण प्रयतस्ततः
संमृज्यांगुष्ठमूलेन मुखं वै समुपस्पृशेत् । अंगुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः
तर्जन्यंगुष्ठयोगेन स्पृशेन्नासापुटद्वयम् । कनिष्ठांगुष्ठयोगेन श्रवणे समुस्पृशेत्
सर्वासामथयोगेन हृदयं तु तनवा । स्पृशेद्वै शिरसस्तद्वदंगुष्ठेनांसकद्वयम्
त्रिःप्राश्नीयाद्यदंभस्तु प्रीतास्तेनास्य देवताः । ब्रह्माविष्णुर्महेशश्च भवंतीत्यनुशुश्रुम
गंगा च यमुना चैव प्रीयेते परिमार्जनात् । संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ
नासत्यदस्रौ प्रीयेते स्पृशेन्नासापुटद्वयम् । कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानिलानलौ
संस्पृष्टे हृदये चास्य प्रीयंते सर्वदेवताः । मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत्
नोच्छिष्टं कुर्वते वक्त्रे विप्रुषोंगे लगंति याः । दंतवद्दंतलग्नेषु जिह्वास्पर्शे शुचिर्भवेत्
स्पृशंति बिंदवः पादौ य आचामयतः परान् । भूमिपांशुसमा ज्ञेया न तैरस्पृश्यता भवेत्
मधुपर्के च सोमे च तांबूलस्य च भक्षणे । फलमूले चेक्षुदंडेन दोषं प्राह वै मनुः
प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः । भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत्
तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः । भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत्
यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः । अनिधायैव तद्द्रव्यं भूमौ त्वशुचितामियात्
वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याचमेदिह । अरण्ये निर्जने रात्रौ चौरव्याघ्राकुले पथि