धर्मसारः समुद्दिष्टः प्रेत्यानंतफलप्रदः । सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया
शिष्यो विद्याफलं भुंक्ते प्रेत्य चापद्यते दिवि । यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते
तेन दोषेण संप्रेत्य निरयं घोरमृच्छति । पुंसां वर्त्मनि सृष्टेन पूज्यो भर्ता तु सर्वदा
अपि मातरि लोकेऽस्मिन्नुपकाराद्धि गौरवम् । मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून्
असावहमिति ब्रूयात्प्रत्युत्थायाभिवादयेत् । अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत्
भो भवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् । अभिवाद्यश्च पूज्यश्च शिरसानम्य एव च
ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैः सादरं सदा । नाभिवाद्याश्च विप्रेण क्षत्रियाद्याः कथंचन
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः । ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः
सवर्णेन सवर्णानां कार्यमेवाभिवादनम् । गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः । विद्याकर्मवयोबंधुर्वित्तं भवति पंचमम्
मान्यस्थानानि पंचाहुः पूर्वं पूर्वं गुरूत्तरात् । पंचानां त्रिषु वर्णेषु भूयांसि बलवंति च
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः । पंथा देयो ब्राह्मणाय स्त्रियै राज्ञे विचक्षुषे
वृद्धाय भारभग्नाय रोगिणे दुर्बलाय च । भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम्
निवेद्य गुरुवेऽश्नीयाद्वाग्यतस्तदनुज्ञया । भवत्पूर्वं चरेद्भैक्ष्यमुपवीती द्विजोत्तमः
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् । मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम्
भिक्षेत भिक्षांप्रथमं याचैनं न विमानयेत् । सजातीयगृहेष्वेव सार्ववर्णिकमेव वा
भैक्ष्यस्याचरणं प्रोक्तं पतिता दिवि वर्जितम् । वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु
ब्रह्मचार्य्याहरेद्भैक्ष्यं गृहेभ्यः प्रयतोऽन्वहम् । गुरोः कुले न भिक्षेत न ज्ञातिकुलबंधुषु
अलाभेत्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् । सर्वं वा विचरेद्ग्रामं पूर्वोक्तानामसंभवे
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् । समाहृत्य तु भैक्ष्यान्नं यावदर्थममायया
भुंजीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः । भैक्ष्येण वर्तयेन्नित्यं नैवेकान्नो भवेद्व्रती
भैक्ष्यैण वर्त्तिनो वृत्तिरुपवाससमा स्मृता । पूजयेदशनं नित्यमद्याच्चैनमकुत्सयन्
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनंदेच्च सर्वशः । अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम्
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् । प्राङ्मुखोऽन्नानि भुंजीत सूर्याभिमुखमेव वा
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः । प्रक्षाल्य पाणिपादौ च भुंजानो द्विरुपस्पृशेत्
शुद्धे देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत्
व्यास उवाच- भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । ओष्ठावलोमकौ स्पृष्ट्वा वासो विपरिधाय च
रेतोमूत्रपुरीषाणामुत्सर्गेऽनृतभाषणे । ष्ठीवित्वाऽध्ययनारंभे कासश्वासागमे तथा
चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः । संध्ययोरुभयोस्तद्वदाचांतोऽप्याचमेत्पुनः
चंडालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे । उच्छिष्टं पुरुषं दृष्ट्वा भोज्यं चापि तथाविधम्