यत्र कर्पूरकदली क्रोडव्याघ्रदरीतलः । चोली कपोलफलकान्चुबन्वाति समीरणः
उद्भिन्न केतकीकोशरजोमुकुलितेक्षणः । विस्रब्धाहरणा यत्रच्छायां तां परितन्वतः
नारिकेलफलैर्यत्र स्वयं निपतितैरधः । अपि चूतफलैस्तृप्ताः पक्वैः शाखामृगा अपि
अपि केसरिणो यत्र खेलंति कलभैः समम् । फणिनः केकिबर्हेषु निर्विशंकं विशंति च
यत्राश्रमांतरे विप्रो वत्सनामा जितेंद्रियः । शांतश्चतुर्दशाध्यायं जपन्नास्ते निरंतरम्
तत्र तच्छिष्यपादाब्ज प्रक्षालनजलैः कृते । कर्दमे न्यपतद्गत्वा जीवशेषो मुहुः श्वसन्
ततः कर्दमसंस्पर्शमात्रनिस्तीर्ण संसृतिः । दिव्यं विमानमारुह्य निर्ययौ शशको दिवम्
ततः शुन्यपि लिप्तांगीस्तोकैः कर्दमबिंदुभिः । क्षुत्पिपासार्तिरहिता शुनीरूपं विहाय सा
ततो दिव्यांगनारम्यं गंधर्वैरुपशोभितम् । दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ
ततो जहास मेधावी शिष्यो नाम्ना स्वकंधरः । विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम्
राजापि पर्यपृच्छत्तं विस्मयस्मेरलोचनः । प्रणम्य परया भक्त्या विनयैकपयोनिधिः
कथां कथय मे विप्र हीनयोनि निषेवितौ । अज्ञौयौ जग्मतुः स्वर्गे शुनी शशकशावकौ
शिष्य उवाच। वत्सनामा द्विजन्मास्ते वनेऽमुष्मिन्जितेंद्रियः । चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन्
शिष्योऽहं तस्य भूपाल ब्रह्मविद्याविशारदः । चतुर्दश तु अध्यायं जपामि प्रत्यहं नृप
मदीयचरणांभोजप्रक्षालनजले लुठन् । शशस्त्रिदिवमापन्नः शुनक्या सह भूपते
राजोवाच। हेतुना केन कथय हसितं च द्विजोत्तम । अतः किमपि साकूतं मन्यमानेन सादरम्
शिष्य उवाच। महाराष्ट्रेति नगरं नाम्ना प्रत्युदकं महत् । तत्रासीद्ब्राह्मणो नाम्ना केशवः कितवाग्रणीः
विलोभनाभवत्तस्य जाया स्वैरविहारिणी । तेन सा हन्यते क्रोधाद्वैरं संचिंत्य जन्मनः
ततः स्त्रीवधपापेन शशको जायते द्विजः । किल्बिषाच्छुनकी सापि जाता वंचनजन्मनः
पूर्वेण जन्मनाभ्यस्तं वैरं विस्मरतो नहि । आसेदिवद्भ्यां बहुधा योन्यंतरमपि क्वचित्
इत्याकलय्य सकलं भूपालः श्रद्धयान्वितः । गीतामभ्यस्य सकलामवाप परमां गतिम्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये अष्टाशीत्यधिकशततमोऽध्यायः
ईश्वर उवाच। प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके । गीता पंचदशाध्यायमाहात्म्यमवधारय
कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः । यस्यासिधारया संख्ये देवासंघा वधीकृताः
यदीय मत्तमातंग दानधाराजलैरिला । निदाघेपि च सेहेतां रविसंतापवेदनाम्
संक्रंदनपरित्रस्ता यदीय शरणं गताः । रेजिरे करिणो मत्ताश्चलंतः पर्वता इव
मत्तमातंगचीत्कारप्रतिस्वनमिवादरात् । यस्य गोपायतः शैला व्याहरंति कृपावतः
यदीय धावत्तुरगक्षुरसंघातजर्जरम् । नाभूच्चित्रं कथंकारं गतखंडं धरातलम्
पुनरुज्वलयांचक्रे महाभाष्यं फणीश्वरः
तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः । नाम्ना सरभभेरुंडः प्रचंडभुजमंडलः