रक्षंति परमं नित्यं पापकर्मपरायणान् । ये तु चान्ये च तिष्ठंति न यांति परमां गतिम्
युधिष्ठिर उवाच- अप्याह मे यथातत्त्वं यथैषां तिष्ठते श्रुतम् । केन वा कारणेनैव तिष्ठंति लोकसंमताः
मार्कंडेय उवाच- प्रयागे निवसंत्येते ब्रह्मविष्णुमहेश्वराः । कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर
पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् । तिष्ठंति रक्षणार्थाय पापकर्मनिवारणाः
तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यति । एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः
सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले । तिष्ठंति ध्रियमाणाश्च यावदाभूतसंप्लवम्
ये चान्ये बहवः सर्वे तिष्ठंति च युधिष्ठिर । पृथिवीस्थानमारभ्य निर्मितं दैवतैस्त्रिभिः
प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् । एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर
स्वराज्यं कुरु राजेंद्र भ्रातृभिः सहितो भव
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये अष्टचत्वारिंशोऽध्यायः
सूत उवाच- भ्रातृभिः सहिताः सर्वे पांडवा धर्मनिश्चयाः । ब्राह्मणेभ्यो नमस्कृत्वागुरुदेवांस्त्वतर्पयन्
वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा । पांडवैः सहितैः सर्वैः पूज्यमानः स माधवः
कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः । अभिषिक्तः स्वराज्ये तु धर्मपुत्रो युधिष्ठिरः
एतस्मिन्नंतरे चैव मार्कंडेयो महात्मवान् । ततः स्वस्तीति चोक्त्वा वै क्षणादाश्रममागतः
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तु सः । महादानं ददौ चाथ धर्मपुत्रो युधिष्ठिरः
यस्त्विदं कल्यमुत्थाय पठते वा शृणोति वा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
वासुदेव उवाच- मम वाक्यं तु कर्तव्यं तव स्नेहाद्ब्रवीम्यहम् । नित्यं यज्ञरतो भूत्वा प्रयागे विगतज्वरः
प्रयागं संस्मरन्नित्यं सहास्माभिर्युधिष्ठिर । स्वयं प्राप्स्यसि राजेंद्र स्वर्गलोकं तु शाश्वतम्
प्रयागमनुगच्छेद्वा वसते वापि यो नरः । सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते । अकोपनश्च राजेंद्र सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम् । न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणो यज्ञो नानासंभारसंभ्रमः । प्राप्यते विविधैरर्थ्यैः समृद्धैर्वा नरैः क्वचित्
यो दरिद्रैरपि बुधैः शक्यः प्राप्तुं नरेश्वर । ततो यज्ञफलैः पुण्यैस्तन्निबोध जनेश्वर
ऋषीणां परमं गुह्यमिदं भरतसत्तम । तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते
दशकोटिसहस्राणि त्रिंशत्कोट्यस्तथापरे । माघमासे तु गंगायां गमिष्यंति नरर्षभ
स्वस्थो भव महाराज भुक्त्वा राज्यमकंटकम् । पुनर्द्रक्ष्यसि राजेंद्र यजमानो विशेषतः
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्यं। नाम ऊनपंचाशत्तमोऽध्यायः
ऋषय ऊचुः- भवता कथितं सर्वं यत्किंचित्पृष्टमेव च । इदानीमपि पृच्छाम एकं वद महामते
एतेषां खलु तीर्थानां सेवनाद्यत्फलं लभेत् । सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते