अनेन कर्म्मणा युक्ताः पच्यंते नरकेऽधमाः । एवं योगं च धर्म्मं च दातारं च युधिष्ठिर
यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् । निरुक्तं तु प्रवक्ष्यामि यथायं स्वयमाप्नुयात्
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये षट्चत्वारिंशोऽध्यायः
मार्कंडेय उवाच- शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । नैमिषं पुष्करं चैव गोतीर्थं सिंधुसागरम्
कुरुक्षेत्रं गया चैव गंगासागरमेव च । एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः
दशतीर्थसहस्राणि त्रिंशत्कोट्यस्तथापरे । प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः
त्रीणि चाप्यग्निकुंडानि येषां मध्ये तु जाह्नवी । प्रयागादभिनिष्क्रांता सर्वतीर्थपुरस्कृता
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । गंगायमुनया सार्धं संस्थिता लोकभाविनी
गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल कलां नार्हंति षोडशीम्
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् । दिव्यं भुव्यंतरिक्षे च तत्सर्वं जाह्नवि स्मृता
प्रयागं समधिष्ठानं कंबलाश्वतरावुभौ । भोगवत्यथ या चैव वेदिरेषा प्रजापतेः
तत्र देवाश्च यज्ञाश्च मूर्तिमंतो युधिष्ठिर । पूजयंति प्रयागं ते ऋषयश्च तपोधनाः
यजंते क्रतुभिर्देवांस्तथा बहुधना नृपाः । ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत
प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो । दशतीर्थसहस्राणि तिस्रः कोट्यस्तथापरे
यत्र गंगा महाभागा स देशस्तत्तपोवनम् । सिद्धक्षेत्रं तु तज्ज्ञेयं गंगातीरसमाश्रितम्
इति सत्यं द्विजातीनां साधूनामात्मजस्य वा । सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा
इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं शुभम् । इदं पुण्यमिदं रम्यं पावनं धर्ममुत्तमम्
महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् । अधीत्य च द्विजो ध्यायन्निर्मलत्वमवाप्नुयात्
यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते
प्राप्यंते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव
त्वया तु सम्यक्पृष्टेन कथितं तु मया विभो । पितरस्तारिताः सर्वे तारिताश्च पितामहाः
प्रयागस्य तु सर्वे ते कलां नार्हंति षोडशीम् । एवं ज्ञानं च योगं च तीर्थं चैव युधिष्ठिर
बहुक्लेशेन युज्यंते ततो यांति परां गतिम् । प्रयागस्मरणाल्लोकः स्वर्गलोकं च गच्छति
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये सप्तचत्वारिंशोऽध्यायः
युधिष्ठिर उवाच- कथा सर्वात्वियं प्रोक्ताप्रयागस्य महामुने । एवं मे सर्वमाख्याहि यथा च मम तारयेत्
मार्कंडेय उवाच- शृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत् । ब्रह्माविष्णुस्तथेशानो देवता प्रभुरव्ययः
ब्रह्मा सृजति भूतानि स्थावरं जंगमं च यत् । तान्येतानि परो लोके विष्णुः पालयति प्रजाः
कल्पांते तत्समग्रं हि रुद्रः संहरते जगत् । न ददाति च नाध्येति न कदाचिद्विनश्यति
ईश्वरः सर्वभूतानां यः पश्यति स पश्यति । उत्तरेण प्रतिष्ठानादिदानीं ब्रह्म तिष्ठति
महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरः । ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः