एवं सर्वेषु लोकेषु प्रयागः पूज्यते बुधैः । पूज्यते तीर्थराजस्य सत्यमेतद्युधिष्ठिर
ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् । तीर्थराजमनुप्राप्य नैवान्यत्किंचिदिच्छति
को हि देवत्वमासाद्य मानुषत्वं चिकीर्षति । अनेनैवानुमानेन त्वं ज्ञास्यसि युधिष्ठिर
यथा पुण्यमपुण्यं वा तथैव कथितं मया । युधिष्ठिर उवाच- श्रुतं तद्यत्त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः
कथं योगेन तत्प्राप्तिः स्वर्गलोकस्तु कर्मणा । तदा च लभते भोगान्गां च तत्कर्मणां फलम्
तानि कर्माणि पृच्छामि पुनर्यैः प्राप्यते महीम् । मार्कंडेय उवाच- शृणुराजन्महाबाहो यथोक्तकर्म्मणा मही
गामग्निं ब्राह्मणं शास्त्रं कांचनं सलिलं स्त्रियः । मातरं पितरं चैव यो निंदति नराधिप
नैतेषामूर्ध्वगमनमेवमाह प्रजापतिः । एवं योगस्य संप्राप्तिः स्थानं परमदुर्लभम्
गच्छंति नरकं घोरं ये नराः पापकारिणः । हस्त्यश्वं गामनड्वाहं मणिमुक्तादि कांचनम्
परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति । न ते गच्छंति वै स्वर्गं दातारो यत्र भोगिनः
अनेन कर्म्मणा युक्ताः पच्यंते नरकेऽधमाः । एवं योगं च धर्म्मं च दातारं च युधिष्ठिर
यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् । निरुक्तं तु प्रवक्ष्यामि यथायं स्वयमाप्नुयात्
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये षट्चत्वारिंशोऽध्यायः
मार्कंडेय उवाच- शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । नैमिषं पुष्करं चैव गोतीर्थं सिंधुसागरम्
कुरुक्षेत्रं गया चैव गंगासागरमेव च । एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः
दशतीर्थसहस्राणि त्रिंशत्कोट्यस्तथापरे । प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः
त्रीणि चाप्यग्निकुंडानि येषां मध्ये तु जाह्नवी । प्रयागादभिनिष्क्रांता सर्वतीर्थपुरस्कृता
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । गंगायमुनया सार्धं संस्थिता लोकभाविनी
गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल कलां नार्हंति षोडशीम्
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् । दिव्यं भुव्यंतरिक्षे च तत्सर्वं जाह्नवि स्मृता
प्रयागं समधिष्ठानं कंबलाश्वतरावुभौ । भोगवत्यथ या चैव वेदिरेषा प्रजापतेः
तत्र देवाश्च यज्ञाश्च मूर्तिमंतो युधिष्ठिर । पूजयंति प्रयागं ते ऋषयश्च तपोधनाः
यजंते क्रतुभिर्देवांस्तथा बहुधना नृपाः । ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत
प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो । दशतीर्थसहस्राणि तिस्रः कोट्यस्तथापरे
यत्र गंगा महाभागा स देशस्तत्तपोवनम् । सिद्धक्षेत्रं तु तज्ज्ञेयं गंगातीरसमाश्रितम्
इति सत्यं द्विजातीनां साधूनामात्मजस्य वा । सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा
इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं शुभम् । इदं पुण्यमिदं रम्यं पावनं धर्ममुत्तमम्
महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् । अधीत्य च द्विजो ध्यायन्निर्मलत्वमवाप्नुयात्
यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते
प्राप्यंते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव