युधिष्ठिर उवाच- अद्य मे सफलं जन्म अद्य मे सफलं कुलम् । प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै । त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः
मार्कंडेय उवाच- दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् । कीर्तनाद्वर्द्धते पुण्यं श्रुतं पापप्रणाशनम्
युधिष्ठिर उवाच- यमुनायां तु किं पुण्यं किं फलं तु महामुने । एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम्
मार्कंडेय उवाच-। तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा
येनैव निःसृता गङ्गा तेनैव यमुना गता । योजनानां सहस्रेषु कीर्तनात्पापनाशिनी
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । कीर्त्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम् । प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् २६ thumb|प्रयागे गङ्गा-यमुनयोः सङ्गमः. अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे । पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतम्
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः । एवं तीर्थसहस्राणि यमुना दक्षिणे तटे
उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः । तीर्थं तु विरजं नाम यत्र देवाः सवासवाः
उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर । देवाः सेवंति तत्तीर्थं ये चान्ये विदुषो जनाः
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् । अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः
तेषु स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः । गंगा च यमुना चैव उभे तुल्यफले स्मृते
केवलं श्रेष्ठभावेन गंगा सर्वत्र पूज्यते । एवं कुरुष्व कौंतेय स्वर्गतीर्थाभिषेचनम्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति । यस्त्विदं कल्य उत्थाय पठते च शृणोति वा
मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति
इति श्रीपाद्मे महापुराणे स्वर्गखंडे यमुनामाहात्म्ये पंचचत्वारिंशोऽध्यायः
युधिष्ठिर उवाच- श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे पुण्यसम्मितम् । तीर्थानां तु सहस्राणि शतानि नियुतानि च
सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता । पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम्
प्रयागमपि लोकानां कुरुक्षेत्रं विशिष्यते । सर्वाणि संपरित्यज्य कथमेकं प्रशंससि
अप्रमाणमिदं प्रोक्तमश्रद्धेयमनुत्तमम् । गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान्
किमर्थमल्पयोगेन बहुधर्मं प्रशंससि । एतं मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम्
मार्कंडेय उवाच- अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि तद्भवेत् । नरस्य श्रद्दधानस्य पापोपहतचेतसः
अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमंगलः । एते पातकिनः सर्वे तेनेदं भाषितं मया
शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् । प्रत्यक्षं च परोक्षं च यथान्यत्संभविष्यति
यथैवान्यन्मया दृष्टं पुरा राजन्यथाश्रुतम् । शास्त्रं प्रमाणं कृत्वा तु पूज्यते योगमात्मनः
क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् । जन्मांतरसहस्रेभ्यो योगो लभ्येत मानवैः
यथायोगसहस्रेण योगो लभ्येत मानवैः । यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति
तेन दानेन दत्तेन योगो लभ्येत मानवैः । प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा
प्रधानहेतुं वक्ष्यामि श्रद्दधत्सु च भारत । यथा सर्वेषु भूतेषु सर्वत्रैव तु दृश्यते
ब्रह्म नैवास्ति वै किंचिद्यद्वक्तुं त्विदमुच्यते । यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते