राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः । सोमलोकमवाप्नोति सोमेन सह मोदते
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । स्वर्गलोकमवाप्नोति ऋषिगंधर्वसेवितः
परिभ्रष्टस्तु राजेंद्र समृद्धे जायते कुले । अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः
शतं वर्षसहस्राणि स्वर्गलोके महीयते । परिभ्रष्टस्तु राजेंद्र अग्निहोत्री भवेन्नरः
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते नरः । यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति
विहंगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् । शतं वर्षसहस्राणां सोमलोके महीयते
ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः । गुणवान्रूपसंपन्नो विद्वान्सुप्रियदेहवान्
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः । यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे
ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतम् । एकरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते
सूर्यलोकमवाप्नोति अनृणी च सदा भवेत्
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये चतुश्चत्वारिंशोऽध्यायः
युधिष्ठिर उवाच- एतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम् । विशुद्धमेतद्धृदयं प्रयागस्य च कीर्तनात् । अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम्
मार्कंडेय उवाच- शृणु राजन्प्रयागे तु अनाशकफलं विभो । प्राप्नोति पुरुषो धीमान्श्रद्दधानश्च यादृशम्
अहीनांगो विरोगश्च पंचेंद्रियसमन्वितः । अश्वमेधफलं तस्य गच्छतस्तु पदे पदे
कुलानि तारयेद्राजन्दशपूर्वान्दशापरान् । मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम्
युधिष्ठिर उवाच- महाभागोसि धर्मज्ञ दानं वदसि मे प्रभो । अल्पेनैव प्रधानेन बहून्धर्मानवाप्नुयात्
अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह । एतन्मे संशयं ब्रूहि परं कौतूहलं हि मे
मार्कंडेय उवाच- शृणु राजन्महावीर युदुक्तं पद्मयोनिना । ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम्
पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् । प्रविशंस्तस्य तद्भूमावश्वमेधं पदे पदे
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश । नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत्
एवं ज्ञात्वा तु राजेंद्र सदा श्रद्धापरो भवेत् । अश्रद्दधानाः पुरुषाः पापोपहतचेतसः । न प्राप्नुवंति तत्स्थानं प्रयागं देवनिर्मितम्
युधिष्ठिर उवाच- स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः । कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः
विक्रयं सर्वभांडानां कार्याकार्यमजानतः । प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने
मार्कंडेय उवाच- शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् । मासं वसंस्तु राजेंद्र प्रयागे नियतेंद्रियः
मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयंभुवा । शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयान्वितः
मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् । विश्रंभघातकानां तु प्रयागे शृणु तत्फलम्
त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् । त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः
प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् । सर्वकामसमृद्धस्तु स्वर्गलोके महीयते
स्थानं स लभते नित्यं धनधान्यसमाकुलम् । एवं ज्ञानेन संपूर्णः सदा भवति भोगवान्
तारिताः पितरस्तेन नरकात्प्रपितामहाः । धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः । त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम्