कुशासनधरो नित्यं नियतः संयतेंद्रियः । एककालं तु भुंजानो मासं भोगपतिर्भवेत्
सुवर्णालंकृतानां तु नारीणां लभते शतम् । पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत्
दशग्रामसहस्राणां भोक्ता भवति भूमिपः । धनधान्यसमायुक्तो दाता भवति नित्यशः
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः । अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेंद्रियः
उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात् । कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत्
कोटिवर्षसहस्राणि स्वर्गलोके महीयते । ततः स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः
सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान् । ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु
दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत् । कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत्
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः । चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम्
अहिंसायां तु यो धर्म्मो गमनादेव तद्भवेत् । कुरुक्षेत्रसमा गंगा यत्रतत्रावगाह्यते
कुरुक्षेत्राद्दशगुणा यत्र सिंध्वा समागता । यत्र गंगा महाभागा बहुतीर्थतपोधना
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा । क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः
दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता । यावदस्थीनि गंगायां तिष्ठंति तस्य देहिनः
तावद्वर्षसहस्राणि स्वर्गलोके महीयते । तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी
मोक्षदा सर्वभूतानां महापातकिनामपि । सर्वत्र सुलभा गंगा त्रिषु स्थानेषु दुर्लभा
गंगाद्वारे प्रयागे च गंगासागरसंगमे । तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः
सर्वेषां चैव भूतानां पापोपहतचेतसाम् । गतिमन्वेषमाणानां नास्ति गंगासमा गतिः
पवित्राणां पवित्रं या मंगलानां च मंगलम् । महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा
मार्कंडेय उवाच- शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
मानसं नाम तत्तीर्थं गंगायामुत्तरे तटे । त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात्
गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः । एतत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः
अकामो वा सकामो वा गंगायां यो विपद्यते । मृतस्तु भवति स्वर्गे नरकं न च पश्यति
अप्सरोगणसंगीतैः सुप्तोऽसौ प्रतिबुध्यते । हंससारसयुक्तेन विमानेन स गच्छति
बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुंजते । ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः
सुवर्णमणिमुक्ताढ्ये जायते स महाकुले । षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च
माघेमासि गमिष्यंति गंगायमुनसंगमे । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
प्रयागे माघमासे तु त्र्यहंस्नानस्य तत्फलम् । गंगायमुनयोर्मध्ये पंचाग्निं यस्तु साधयेत्
अहीनांगो ह्यरोगश्च पंचेन्द्रियसमन्वितः । यावंति रोमकूपाणि तस्य गात्रस्य देहिनः
तावद्वर्षसहस्राणि स्वर्गलोके महीयते । ततः स्वर्गात्परिभ्रष्टो जंबूद्वीपपतिर्भवेत्
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं भजते नरः । जलप्रवेशं यः कुर्यात्संगमे लोकविश्रुते