कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम्
पूर्वपार्श्वे तु गंगायां त्रिषु लोकेषु भारत । कूपं चैव तु सामुद्रं प्रतिष्ठानं तु विश्रुतम्
ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत्
उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम्
अश्वमेधफलं तस्मिन्स्नातमात्रस्य भारत । यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते
उर्वशीपुलिने रम्ये विपुले हंसपांडुरे । सलिलैस्तर्प्पयेद्यस्तु पितॄंस्तत्र विमत्सरः
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । सेवते पितृभिः सार्द्धं स्वर्गलोकं नराधिप
पूज्यते सततं तत्र ऋषिगंधर्वकिन्नरैः । ततः स्वर्गपरिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः
उर्वशीसदृशीनां तु कन्यानां लभते शतम् । गवां शतसहस्राणां भोक्ता भवति भूमिप
कांचीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः
कुशासनधरो नित्यं नियतः संयतेंद्रियः । एककालं तु भुंजानो मासं भोगपतिर्भवेत्
सुवर्णालंकृतानां तु नारीणां लभते शतम् । पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत्
दशग्रामसहस्राणां भोक्ता भवति भूमिपः । धनधान्यसमायुक्तो दाता भवति नित्यशः
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः । अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेंद्रियः
उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात् । कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत्
कोटिवर्षसहस्राणि स्वर्गलोके महीयते । ततः स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः
सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान् । ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु
दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत् । कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत्
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः । चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम्
अहिंसायां तु यो धर्म्मो गमनादेव तद्भवेत् । कुरुक्षेत्रसमा गंगा यत्रतत्रावगाह्यते
कुरुक्षेत्राद्दशगुणा यत्र सिंध्वा समागता । यत्र गंगा महाभागा बहुतीर्थतपोधना
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा । क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः
दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता । यावदस्थीनि गंगायां तिष्ठंति तस्य देहिनः
तावद्वर्षसहस्राणि स्वर्गलोके महीयते । तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी
मोक्षदा सर्वभूतानां महापातकिनामपि । सर्वत्र सुलभा गंगा त्रिषु स्थानेषु दुर्लभा
गंगाद्वारे प्रयागे च गंगासागरसंगमे । तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः
सर्वेषां चैव भूतानां पापोपहतचेतसाम् । गतिमन्वेषमाणानां नास्ति गंगासमा गतिः
पवित्राणां पवित्रं या मंगलानां च मंगलम् । महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा
मार्कंडेय उवाच- शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
मानसं नाम तत्तीर्थं गंगायामुत्तरे तटे । त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात्