इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विचत्वारिंशोऽध्यायः
युधिष्ठिर उवाच- यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया । तथातथा प्रमुच्येऽहं सर्वपापैर्न संशयः
भगवन्केन विधिना गंतव्यं धर्मनिश्चयैः । प्रयागे यो विधिः प्रोक्तः तन्मे ब्रूहि महामुने
मार्कंडेय उवाच- कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् । यो गच्छेतकुरुश्रेष्ठ प्रयागं देवसंयुतम्
बलीवर्दसमारूढः शृणु तस्यापि यत्फलम् । वसते नरके घोरे गवां क्रोधे सुदारुणे
सलिलं च न गृह्णंति पितरस्तस्य देहिनः । यस्तु पुत्रांस्तथा बालान्स्नापयेत्पाययेत्तथा
यथात्मनस्तथा सर्वान्दानं विप्रेषु दापयेत् । ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः
निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेत् । गंगायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति
आर्षेण तु विधानेन यथाविभवसंभवम् । न पश्यति यमं घोरं नरकं तेन कर्मणा
उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम् । पुत्रांस्तु दाराँल्लभते धार्मिकान्नयसंयुतान्
तत्र दानं प्रदातव्यं यथाविभवसंभवम् । तेन तीर्थफलैनैव वर्द्धते नात्र संशयः
स्वर्गे तिष्ठति राजेंद्र यावदाभूतसंप्लवम् । वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत्
सर्वलोकानतिक्रम्य रुद्रलोकं च गच्छति । तत्र ते द्वादशादित्यास्तपंते रुद्रमाश्रिताः
निर्दहंति जगत्सर्वं वटमूलं न दह्यते । नष्टचंद्रार्कपवनं यदा चैकार्णवं जगत्
स्वपित्यत्रैव वै विष्णुर्जायमानः पुनः पुनः । देवदानवगंधर्व ऋषयः सिद्धचारणाः
सदा सेवंति तत्तीर्थं गंगायमुनसंगमे । तत्र गच्छंति राजेंद्र प्रयागे संयुतं च यत्
तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः । लोकपालाश्च साध्याश्च पितरो लोकसंमताः
सनत्कुमारप्रमुखास्तथैव परमर्षयः । अंगिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे
तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये । सरितः सागराः शैला नागा विद्याधरास्तथा
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः । गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्
प्रयागं राजशार्दूल त्रिषुलोकेषु विश्रुतम् । ततः पुण्यतमं नास्ति त्रिषुलोकेषु भारत
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृत्तिका लंभनाद्वापि नरः पापात्प्रमुच्यते
तत्राभिषेकं यः कुर्य्यात्संगमे संशितव्रतः । तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः
न वेदवचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागगमनं प्रति
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः । येषां सान्निध्यमत्रैव कीर्तनात्कुरुनंदन
या गतिर्योगयुक्तस्य सदुत्थस्य मनीषिणः । सा गतिस्त्यजतः प्राणान्गंगायमुनसंगमे
तेन जीवंति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर । ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम्
एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशांक इव राहुणा
कंबलाश्वतरौ नागौ यमुना दक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः
तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः । नरस्तारयते सर्वान्दशातीतान्दशापरान्