निरंतरं तया चैव नृणां संस्कृतभाषिणाम् । सुपर्वाणमयी भाषा निमेषेणोपलभ्यते
प्रातर्गृहांगणोद्भूतै र्यत्रकुंकुमपांसुलैः । सर्वतोरुणितच्छाय शशांकरविमंडलम्
तत्रासीत्तेजसां राशिः शौर्यवर्मा नरेश्वरः । उद्यदुज्ज्वलबाणौघ खंडितारातिमंडलः
अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः । नाम्ना विक्रमवेतालः कलानामपि शेवधिः
उभौ परस्परं मैत्रीं वर्द्धयांचक्रतुः क्रमात् । तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः
एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा । राजा विक्रमवेतालो विलोक्य शुनकीद्वयम्
मत्तमातंगतुरग मणिभूषणचामरम् । प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे
एकदा शिबिकारूढश्चारु चामरवीजितः । सुवर्णशृंखलारूढं वाद्यडिंडिमडंबरम्
शुनीयुगलमादाय मृगया कौतुकोत्सुकः । राजा जगाम बाह्यालीं समं राजकुमारकैः
पणबंधविधानेन समुपेतं शशामिषम् । तत्र राजकुमाराणां महान्कोलाहलोऽभवत्
ततः समानवयसा केनचिद्राजसूनुना । बहुमूल्यं पणं कृत्वा राजाचिक्रीडकौतुकी
ततोवतार्य दोलाया विरुदावलिगर्विताम् । धावतः शशकस्योच्चैः पृष्ठे मुंचन्नृपं शुनीम्
मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः । विरराम शुनीमुच्चैः संकीर्त्य विरुदावलीम्
अलक्ष्यमाणवेगेऽस्मिन्शुनीयुगलकेभृशम् । धावत्युत्थितमेवासीत्पश्यतां सर्वभूभृताम्
पपात गर्ते महति शशकोऽतिश्रमादसौ । पतितोऽपि शुनी वश्यो नाभवच्छशशावकः
ततः शनैः समुत्थाय धावन्नाक्रम्यरोषतः । जगृहे राजशुन्याऽसौ शशकः फेनमुद्वमन्
ततः कथंचिदुप्लुत्य गच्छन्विस्खलयञ्छशः । राजपुत्रशुनक्यासौ गृहीतः कंधरातटे
जितमस्माभिरत्यर्थमिति संजल्पतां नृणाम् । कोलाहले शंकिताया शुन्या निर्गतवान्मुखात्
ततो दंष्ट्राव्रणश्रेणी क्षरद्रुधिरधारकः । क्वापि र्ममरभूभागे निलीयस्थितवाञ्छशः
जिघ्रंत्या राजशुन्याऽसौ भूभागं धनरोषया । दृष्टमात्रः परित्रस्तो हस्तमात्रं ततोऽगमत्
यत्र कर्पूरकदली क्रोडव्याघ्रदरीतलः । चोली कपोलफलकान्चुबन्वाति समीरणः
उद्भिन्न केतकीकोशरजोमुकुलितेक्षणः । विस्रब्धाहरणा यत्रच्छायां तां परितन्वतः
नारिकेलफलैर्यत्र स्वयं निपतितैरधः । अपि चूतफलैस्तृप्ताः पक्वैः शाखामृगा अपि
अपि केसरिणो यत्र खेलंति कलभैः समम् । फणिनः केकिबर्हेषु निर्विशंकं विशंति च
यत्राश्रमांतरे विप्रो वत्सनामा जितेंद्रियः । शांतश्चतुर्दशाध्यायं जपन्नास्ते निरंतरम्
तत्र तच्छिष्यपादाब्ज प्रक्षालनजलैः कृते । कर्दमे न्यपतद्गत्वा जीवशेषो मुहुः श्वसन्
ततः कर्दमसंस्पर्शमात्रनिस्तीर्ण संसृतिः । दिव्यं विमानमारुह्य निर्ययौ शशको दिवम्
ततः शुन्यपि लिप्तांगीस्तोकैः कर्दमबिंदुभिः । क्षुत्पिपासार्तिरहिता शुनीरूपं विहाय सा
ततो दिव्यांगनारम्यं गंधर्वैरुपशोभितम् । दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ
ततो जहास मेधावी शिष्यो नाम्ना स्वकंधरः । विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम्