मनसा चिंतितान्कामान्सम्यक्प्राप्नोति पुष्कलान् । ततो गत्त्वा प्रयागं तु सर्वदेवाभिरक्षितम्
ब्रह्मचारी वसेन्मासं पितृदेवांश्च तर्पयेत् । ईप्सिताँल्लभते कामान्यत्र तत्राभिजायते
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगाः
तत्र सन्निहितो नित्यं साक्षाद्देवो महेश्वरः । दुष्प्रापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर
देवदानवगंधर्वा ऋषयः सिद्धचारणाः । तत्रोपस्पृश्य राजेंद्र स्वर्गलोके महीयते
इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकचत्वारिंशोऽध्यायः
मार्कंडेय उवाच- शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । यं गत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् । स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन
गंगायमुनमासाद्य यस्तु प्राणान्परित्यजेत् । दीप्तकांचनवर्णाभे विमाने सूर्यवर्चसि
गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः । ईप्सिताँल्लभतेकामान्वदंति ऋषिपुंगवाः
सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः । वरांगना समाकीर्णैर्मोदते शुभलक्षणैः
गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते । यावन्न स्मरते जन्म तावत्स्वर्गे महीयते
तत्र स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः । हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले
तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति । देशस्थो यदि वारण्ये विदेशे यदि वा गृहे
प्रयागं स्मरमात्रोपि यस्तु प्राणान्परित्यजेत् । स ब्रह्मलोकमाप्नोति वदंति ऋषिपुंगवाः
सर्वकामफलावृत्ता मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धा यत्र लोके प्रगच्छति
स्त्रीसहस्रा कुले रम्ये मंदाकिन्यास्तटे शुभे । मोदते ऋषिभिः सार्द्धं स्वकृतेनेह कर्मणा
सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः । ततः स्वर्गात्परिभ्रष्टो जंबुद्वीपपतिर्भवेत्
ततः शुभानि कर्माणि चिंतयानः पुनः पुनः । गुणवान्वित्तसंपन्नो भवतीह न संशयः
कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः । गंगायमुनयोर्मध्ये यस्तु दानं प्रयच्छति
सुवर्णंमणिमुक्तां वा यदि धान्यं प्रतिग्रहम् । स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा
निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्नुते । एवं तीर्थेन गृह्णीयात् पुण्येष्वायतनेषु च
निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् । कपिलां पाटलावर्णां प्रयागे यः प्रयच्छति
स्वर्णशृंगीं रौप्यखुरां चैलकंठीं पयस्विनीम् । प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि
शुक्लांबरधरं शांतं धर्मज्ञं वेदपारगम् । सा गौस्तस्मै च दातव्या गंगायमुनसंगमे
वासांसि च महार्हाणि रत्नानि विविधानि च । यावद्रोमाणि तस्या गोः संति गात्रेषु सत्तम
तावद्वर्षसहस्राणि स्वर्गलोके महीयते । यत्रासौ लभते जन्म सा गौस्तत्राभिजायते
न च पश्यत्यसौ घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम्
गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् । पुत्रान्दारान्तथा भृत्यान्गौरेका प्रतितारयेत्
तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते । दुर्गमे विषमे घोरे महापातकसंभवे । गौरेव रक्षां कुरुते तस्माद्देया द्विजातये