ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् । पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम् । कथयस्व समासेन मुच्येऽहं येन किल्बिषात्
मार्कंडेय उवाच- शृणु राजन्महाभाग यन्मां पृच्छसि भारत । एवं सांख्यं च योगं च तीर्थं चैव युधिष्ठिर
किं पुनर्ब्राह्मणैः पुण्यैः कीर्तितं वै पुरा विभो । प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम्
युधिष्ठिर उवाच- भगवञ्छ्रोतुमिच्छामि पुराकल्पे यथास्थितम् । कथं प्रयागगमनं नराणां तत्र कीदृशम्
मृतानां का गतिस्तत्र स्नातानां चैव किं फलम् । ये वसंति प्रयागे तु ब्रूहि तेषां च किं फलम् । एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे
मार्कंडेय उवाच- कथयिष्यामि ते वत्स नाथेष्टं यच्च यत्फलम् । पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम्
आप्रयागात्प्रतिष्ठानाद्धर्मकी वासुकी ह्रदात् । कंबलाश्वतरौ नागौ नागाश्च बहुमूलिकाः
एतत्प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः
तत्र ब्रह्मादयो देवा रक्षां कुर्वंति संगताः । अन्ये च बहवस्तीर्थाः सर्वपापप्रणाशनाः
न शक्याः कथितुं राजन्बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्य च कीर्त्तनम्
षष्टिर्धनुः सहस्राणि परिरक्षंति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः
प्रयागं तु विशेषेण स्वयं रक्षति वासवः । मंडलं रक्षति हरिर्देवैः सह सुसंमतम्
तं वटं रक्षते नित्यं शूलपाणिर्महेश्वरः । स्थानं रक्षति वै देवः सर्वपापहरं शुभम्
अधर्मेण वृतो लोके नैव गच्छति तत्पदम् । स्वल्पमल्पतरं पापं यदा तस्य नराधिप
प्रयागस्मरमाणस्य सर्वमायाति संक्षयम् । दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि
मृत्तिका लभनाद्वापि नरः पापाद्विमुच्यते । पंचकुंडानि राजेंद्र येषां मध्ये तु जाह्नवी
प्रयागे तु प्रविष्टस्य पापं क्षरति तत्क्षणात् । योजनानां सहस्रेषु गंगां स्मरति यो नरः
अपि दुष्कृतकर्मासौ लभते परमां गतिम् । कीर्तनान्मुच्यते पापैर्दृष्ट्वा भद्राणि पश्यति
अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् । सत्यवादी जितक्रोधो अहिंसां परमास्थितः
धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः । गंगायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात्
मनसा चिंतितान्कामान्सम्यक्प्राप्नोति पुष्कलान् । ततो गत्त्वा प्रयागं तु सर्वदेवाभिरक्षितम्
ब्रह्मचारी वसेन्मासं पितृदेवांश्च तर्पयेत् । ईप्सिताँल्लभते कामान्यत्र तत्राभिजायते
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगाः
तत्र सन्निहितो नित्यं साक्षाद्देवो महेश्वरः । दुष्प्रापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर
देवदानवगंधर्वा ऋषयः सिद्धचारणाः । तत्रोपस्पृश्य राजेंद्र स्वर्गलोके महीयते
इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकचत्वारिंशोऽध्यायः
मार्कंडेय उवाच- शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । यं गत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् । स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन
गंगायमुनमासाद्य यस्तु प्राणान्परित्यजेत् । दीप्तकांचनवर्णाभे विमाने सूर्यवर्चसि
गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः । ईप्सिताँल्लभतेकामान्वदंति ऋषिपुंगवाः