वासुदेवं समाश्रित्य पंचशेषास्तु पांडवाः । कथं द्रोणं च भीष्मं च कर्णं चैव महाबलम्
दुर्योधनं च राजानं भ्रातृपुत्रसमन्वितम् । राजानो निहताः सर्वे ये चान्ये शूरमानिनः
विना राज्येन कर्तव्यं किं भोगैर्जीवितेनवा । धिक्कष्टमिति संचिंत्य राजा विह्वलतां गतः
निश्चेष्टोऽथ निरुत्साहः किं चित्तिष्ठत्यधोमुखः । लब्धसंज्ञो यदा राजा चिंतयानः पुनः पुनः
कं चरे विधिना योगं नियमं तीर्थमेव वा । येनाहं शीघ्रमामुच्ये महापातककिल्बिषात्
यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम् । कथं पृच्छामि वै कृष्णं येनेदं कारितं महत्
धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् । व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः
एवं वैक्लव्यमापन्नो धर्मपुत्रो युधिष्ठिरः । रुदंतः पांडवाः सर्वे भ्रातृशोकपरिप्लुताः
ये च तत्र महात्मानः समेताः पांडवाश्रिताः । कुंती च द्रौपदी चैव ये च तत्र समागताः
भूमौ निपतिताः सर्वे रोदमानाः समंततः । वाराणस्यां तु मार्कंडस्तेन ज्ञातो युधिष्ठरः
यथाविक्लवमापन्नो रोदमानः सुदुःखितः । अचिरेणैव कालेन मार्कंडस्तु महातपाः
हस्तिनापुर संप्राप्तो राजद्वारे स तिष्ठति । द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम्
त्वां द्रष्टुकामो मार्कंडो द्वारे तिष्ठत्यसौ मुनिः । त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परः
युधिष्ठिर उवाच- स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने । अद्य मे सफलं जन्म अद्य मे पावितं कुलम्
अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने । सिंहासन उपस्थाप्य पादशौचार्चनादिभिः
युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् । ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो
आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया । केन वा विक्लवीभूतः कथयस्व ममाग्रतः
युधिष्ठिर उवाच- अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने । एतत्सर्वं विदित्वा तु भगवानिह चागतः
मार्कंडेय उवाच- शृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः । नैव दृष्टं रणे पापं युध्यमानस्य धीमतः
किं पुना राजधर्मेण क्षत्रियस्य विशेषतः । तदेवं हृदये कृत्वा तस्मात्पापं न चिंतयेत्
ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् । पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम् । कथयस्व समासेन मुच्येऽहं येन किल्बिषात्
मार्कंडेय उवाच- शृणु राजन्महाभाग यन्मां पृच्छसि भारत । एवं सांख्यं च योगं च तीर्थं चैव युधिष्ठिर
किं पुनर्ब्राह्मणैः पुण्यैः कीर्तितं वै पुरा विभो । प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम्
युधिष्ठिर उवाच- भगवञ्छ्रोतुमिच्छामि पुराकल्पे यथास्थितम् । कथं प्रयागगमनं नराणां तत्र कीदृशम्
मृतानां का गतिस्तत्र स्नातानां चैव किं फलम् । ये वसंति प्रयागे तु ब्रूहि तेषां च किं फलम् । एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे
मार्कंडेय उवाच- कथयिष्यामि ते वत्स नाथेष्टं यच्च यत्फलम् । पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम्
आप्रयागात्प्रतिष्ठानाद्धर्मकी वासुकी ह्रदात् । कंबलाश्वतरौ नागौ नागाश्च बहुमूलिकाः
एतत्प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः
तत्र ब्रह्मादयो देवा रक्षां कुर्वंति संगताः । अन्ये च बहवस्तीर्थाः सर्वपापप्रणाशनाः
न शक्याः कथितुं राजन्बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्य च कीर्त्तनम्