नाकृतो नाकृतात्मा च नाशुचिर्न च तस्करः । स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना । पितरस्तर्पितास्तात सर्वे च प्रपितामहाः । पितामहपुरोगाश्च देवाः सर्षिगणास्तथा
वसिष्ठ उवाच- त्वं च धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः । दिलीपकीर्तिं महतीं प्राप्स्यसे भुवि शाश्वतीम्
नारद उवाच- एवमुक्त्वाभ्यनुज्ञाप्य वसिष्ठो भगवानृषिः । प्रीतः प्रीतेनमनसा तत्रैवांतरधीयत
दिलीपः कुरुशार्दूल शास्त्रतत्त्वार्थदर्शनात् । वसिष्ठवचनाच्चैव पृथिवीमनुचक्रमे
एवमेषा महाभाग प्रतिष्ठाने प्रतिष्ठिता । तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी
अनेन विधिना यस्तु पृथिवीं पर्यटिष्यति । अश्वमेधशतं साग्रं फलं प्रेत्यैष भोक्ष्यते
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् । दिलीपः पार्थ नृपतिर्यथापूर्वमवाप्तवान्
नेता च त्वमृषीन्यस्मात्तस्मात्तेष्टगुणं फलम् । रक्षोगणविकीर्णानि तीर्थान्येतानि भारत
न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनंदन । इदं देवर्षिचरितं सर्वतीर्थानुसंश्रितम्
यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते । ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः
आत्रेयस्त्वथ कौंडिन्यो विश्वामित्रोऽथ गौतमः । असितो देवलश्चैव मार्कंडेयोऽथ गालवः
भरद्वाजस्य शिष्यश्च मुनिरुद्दालकस्तथा । शौनकः सह पुत्रेण व्यासश्च तपतां वरः
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः । एते ऋषिवराः सर्वे त्वत्प्रतीक्ष्यास्तपोधनाः
एभिः सह महाभाग तीर्थान्येतान्यनुव्रज । प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः । तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे
यथा भगीरथो राजा यथा रामश्च विश्रुतः । यथा वै वृत्रहा सर्वान्सपत्नानदहत् पुरा
त्रैलोक्यं पालयामास देवराट्विगतज्वरः । तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि
स्वधर्मेणार्जितामुर्वीं प्राप्य राजीवलोचन । ख्यातिं यास्यसि वीर्येण कार्त्तवीर्यार्जुनो यथा
सूत उवाच- एवमाभाष्य राजानं नारदो भगवानृषिः । अनुज्ञाप्य महाराजं तत्रैवांतरधीयत
युधिष्ठिरोऽपि धर्मात्मा ऋषिभिः सह सुव्रतः । जगामाखिलतीर्थानि सादरः पृथिवीपतिः
मयोक्तामृषयः सर्वे तीर्थयात्राश्रयां कथाम् । यः पठेच्छृणुयाद्वापि स मुक्तः सर्वपातकैः
मयोक्तमखिलं तत्त्वं किं भूयः श्रोतुमिच्छथ । ऋषीणां पुण्यकीर्तीनां नावक्तव्यं ममास्ति वै
सूत उवाच- एवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः । एषामन्यतमा संगान्मुक्तो भवति मानवः
तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम् । पापराशिनिपाताय नान्योपायः कलौयुगे
वासं कुर्यामहं तीर्थे तीर्थस्पर्शमहं तथा । एवं योऽनुदिनं ब्रूते स याति परमं महत्
पापानि तस्य नश्यंति तीर्थालापनमात्रतः । तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः
तीर्थानां सेवनादेव सेवितो भवति प्रभुः । नारायणो जगत्कर्ता नास्ति तीर्थात्परं पदम्
ब्राह्मणस्तुलसी चैव अश्वत्थस्तीर्थसंचयः । विष्णुश्च परमेशानः सेव्य एव सदा नृभिः
ब्राह्मणानां विशेषेण सेवनं मुनिपुंगवाः । सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः