ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत । प्रयागं सर्वतीर्थेभ्यः प्रभावेणाधिकं प्रभो
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि । मूर्धका नमनाद्वापि सर्वपापैः प्रमुच्यते
तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः । पुण्यं सुमहदाप्नोति राजसूयाश्वमेधयोः
एषा यजनभूमिर्हि देवानामपि तत्कथा । दत्तं तत्र स्वल्पमपि महद्भवति भारत
न देववचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागमरणं प्रति
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः । येषां सान्निध्यमत्रैव कीर्त्तितं कुरुनंदन
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् । स्नातएवतदाप्नोतिगंगायामुनसंगमे
ततो भोगवती नाम वासुकेस्तीर्थमुत्तमम् । तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात्
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् । दशाश्वमेधिकं चैव गंगायां कुरुनंदन
कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता । विशेषो वै कनखले प्रयागं परमं महत्
यद्यकार्यशतं कृत्वा कृतं गंगावसेवनम् । सर्वं तत्तस्य गंगापो दहत्यग्निरिवेंधनम्
सर्वं दहति गंगापस्तूलराशिमिवानलः । सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम्
द्वापरे तु कुरुक्षेत्रं गंगा कलियुगे स्मृता । पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये
मलये त्वग्निमारोहेद्भृगुतुंगे त्वनाशनम् । पुष्करे तु कुरुक्षेत्रे गंगापो मध्यगेषु च
सद्यस्तारयते जंतुः सप्तसप्तावरांस्तथा । पुनाति कीर्त्तिता पापं दृष्ट्वा पुण्यं प्रयच्छति
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम् । यावदस्थि मनुष्यस्य गंगायाः स्पृशते जलम्
तावत्स पुरुषो राजन्स्वर्गलोके महीयते । यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च
उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक् । न गंगा सदृशं तीर्थं न देवः केशवात्परः
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः । यत्र गंगा महाराज स देशस्तत्र योजनम्
सिद्धक्षेत्रं च विज्ञेयं गंगातीरसमाश्रितम् । इदं सत्यं द्विजातीनां साधूनां मानसेषु च
मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च । इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम्
इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम् । महीशीर्षमिदं गुह्यं सर्वपापप्रमोचनम्
अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् । श्रीमत्स्वर्ग्यं महापुण्यं सपत्नशमनं शिवम्
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्त्तनम् । अपुत्रो लभते पुत्रमधनो धनमाप्नुयात्
महीं विजयते राजा वैश्यो धनमवाप्नुयात् । शूद्रो यातीप्सितान्कामान्ब्राह्मणः पारगः पठन्
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचि । जातिस्मरत्वमाप्नोति नाकपृष्ठे च मोदते
गम्यान्यपि च तीर्थानि कीर्तितान्यगमान्यपि । मनसाप्यभिगच्छेत सर्वतीर्थमनीषया
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः । ऋषिभिर्देवकल्पैश्च कृतानि सुकृतैषिभिः
एवं त्वमपि कौरव्य विधिनानेन सुव्रत । व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्द्धते
भावितैः करणैः पूर्वमास्तिक्याछ्रुतिदर्शनात् । प्राप्यंते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः