तत्र वेदान्प्रणष्टांस्तु मुनेरांगिरसः सुतः । उपविष्टो महर्षीणामुत्तरीयेषु भारत
ॐकारेण यथान्यायं सम्यगुच्चारितेन ह । येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम्
ऋषयस्तत्र देवाश्च वरुणोऽग्निप्रजापतिः । हरिर्नारायणो देवो महादेवस्तथैव च
पितामहश्च भगवान्देवैस्सह महाद्युतिः । भृगुं नियोजयामास याजनार्थे महाद्युतिम्
ततः स चक्रे भगवानृषीणां विधिवत्तदा । सर्वेषां पुनराधानं देवदृष्टेन कर्मणा
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि । देवास्त्रिभुवनं याता ऋषयश्च यथासुखम्
तदरण्यं प्रविष्टस्य तुंगकं राजसत्तम । पापं विनश्यते सद्यः स्त्रिया वै पुरुषस्य वा
तत्र मासं वसेद्धीरो नियतो नियताशनः । ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं पुनः
मेधावनं समासाद्य पितृदेवांश्च तर्पयेत् । अग्निष्टोममवाप्नोति स्मृतिं मेधां च विंदति
तत्र कालंजरं गत्वा गोसहस्रफलं लभेत् । आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः । ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते
मंदाकिनीं समासाद्य नदीं पापविमोचनीम् । अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् । ततो गच्छेत राजेंद्र गुहस्थानमनुत्तमम्
यत्र देवो महासेनो नित्यं सन्निहितो नृप । पुमांस्तत्र नरःश्रेष्ठ गमनादेव सिध्यति
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् । प्रदक्षिणमुपावृत्य यशःस्थानं व्रजेन्नरः
अभिगम्य महादेवं विराजति यथा शशी । तत्र कूपो महाराज विश्रुतो भरतर्षभ
समुद्रा यत्र चत्वारो निवसंति युधिष्ठिर । ततोपस्पृश्य राजेंद्र कृत्वा चापि प्रदक्षिणम्
नियतात्मा नरः पूतो गच्छेत परमां गतिम् । ततो गच्छेत्कुरुश्रेष्ठ शृंगवेरपुरं महत्
यत्र तीर्णो महाप्राज्ञो रामो दाशरथिः पुरा । गंगायां तु नरः स्नात्वा ब्रह्मचारी जितेंद्रियः
विधूतपाप्मा भवति वाजपेयं च विंदति । ततो मुंजवटं गछेत्स्थानं देवस्य धीमतः
अभिगम्य महादेवमभ्यर्च्य च नराधिप । प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात्
ततो गच्छेत राजेंद्र प्रयागमृषिसंस्तुतम् । यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः
लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा । सनत्कुमारप्रमुखास्तथैव च महर्षयः
तथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा । सरितः सागराश्चैव गंधर्वाप्सरसस्तथा
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः । तत्र त्रीण्यपि कुंडानि तयोर्मध्येन जाह्नवी
प्रयागात्समतिक्रांता सर्वतीर्थपुरस्कृता । तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता
यमुनागंगया सार्द्धं संगता लोकभाविनी । गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्
प्रयागं जघनस्यांतमुपस्थमृषयो विदुः । प्रयागं सुप्रतिष्ठानं कंबलाश्वतरावुभौ
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः । तत्र वेदाश्च यज्ञाश्च मूर्त्तिमंतो युधिष्ठिर
प्रजापतिमुपासंत ऋषयश्च महानघाः । यजंते क्रतुभिर्देवांस्तथा चक्रधरा नृप