मतंगस्य तु केदारं तत्रैव भरतर्षभ । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् । अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति
श्रीपर्वते महादेवो देव्या सह महाद्युतिः । न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः । अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति
ऋषभं पर्वतं गत्वा भांडेषु सुरपूजितम् । वाजपेयमवाप्नोति नाकपृष्ठे च मोदते
ततो गच्छेत कावेरीं वृतामृप्सरसां गणैः । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत् । तत्रोपस्पृश्य राजेंद्र सर्वपापैः प्रमुच्यते
अथ गोकमर्णमासाद्य त्रिषुलोकेषु विश्रुतम् । समुद्रमध्ये राजेंद्र सर्वलोकनमस्कृतम्
यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः । भूतयक्षाः पिशाचाश्च किन्नराः समहोरगाः
सिद्धचारणगंधर्वा मानुषाः पन्नगास्तथा । सरितः सागराः शैला उपासंते उमापतिम्
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः । दशाश्वमेधमाप्नोति गाणपत्यं च विंदति
उपोष्य द्वादशरात्रं कृतार्थो जायते नरः । तस्मिन्नेव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम्
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् । निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप
गायत्रीं पठते यस्तु योनिसंकरजो द्विजः । गाथा वा गीतिका वाणी तस्य संपद्यते नृप
अब्राह्मणस्य पठतः सावित्री तूपनश्यति । संवर्तस्य तु विप्रर्षे वापीमासाद्य दुर्ल्लभाम्
रूपस्य भागी भवति सुभगश्चाभिजायते । ततो वेणां समासाद्य तर्पयेत्पितृदेवताः
मयूरहंससंयुक्तं विमानं लभते नरः । ततो गोदावरीं प्राप्य नित्यसिद्धनिषेविताम्
गवामयमवाप्नोति वायुलोकं च गच्छति । वेणायाः संगमे स्नात्वा वाजपेयफलं लभेत्
वरदासंगमं स्नात्वा गोसहस्रफलं लभेत् । ब्रह्मस्थूणां समासाद्य त्रिरात्रोपोषितो नरः
गोसहस्रफलं विंद्यात्स्वर्गलोकं च गच्छति । कुब्जावनं समासाद्य ब्रह्मचारी समाहितः
त्रिरात्रोपोषितः स्नात्वा गोसहस्रफलं लभेत् । ततो देवह्रदे स्नात्वा कृष्णवेणा जलोद्भवे
ज्योतिर्मात्र ह्रदे चैव तथा कन्याश्रमे नृप । यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः
अग्निष्टोमशतं विंद्याद्गमनादेव तत्र तु । सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत्
जातिमात्र ह्रदे स्नात्वा भवेज्जातिस्मरो नरः । शरभंगाश्रमं गत्वा शुकस्य च महात्मनः
पितृदेवार्चनरतो गोसहस्रफलं लभेत् । दंडकारण्यमासाद्य महाराज उपस्पृशेत्
शरभंगाश्रमं गत्वा शुकस्य च महात्मनः । न दुर्गतिमवाप्नोति पुनाति स्वकुलं नरः
ततः सूर्यारकं गच्छेज्जमदग्निनिषेवितम् । रामतीर्थं नरः स्नात्वा विंद्याद्बहुसुवर्णकम्
सप्तगोदावरीं स्नात्वा नियतो नियताशनः । महापुण्यमवाप्नोति देवलोकं च गच्छति
ततो देवपथं गच्छेन्नियतो नियताशनः । देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः
तुंगकारण्यमासाद्य ब्रह्मचारी जितेंद्रियः । वेदानध्यापयत्तत्र मुनीन्सारस्वतः पुरा