सकृन्नदीं समासाद्य कृतार्थो भवति द्विजः । सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति
ऋषभद्वीपमासाद्य सेव्य क्रौंचनिषूदनम् । सरस्वत्यामुपस्पृश्य विमानस्थो विराजते
औद्यानकं महाराज तीर्थं मुनिनिषेवितम् । तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते
ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् । वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः
ततश्चंपां समासाद्य भागीरथ्यां कृतोदकः । दंडार्पणं समासाद्य गोसहस्रफलं लभेत्
लाविढिकां ततो गच्छेत्पुण्यां पुण्यनिषेविताम् । वाजपेयमवाप्नोति विमानस्थश्च पूज्यते
नारद उवाच- अथ संध्यां समासाद्य स विद्यांतीर्थमुत्तमम् । उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः
रामस्य च प्रसादेन तीर्थराजं कृतं पुरा । तल्लौहित्यं समासाद्य विंद्याद्बहुसुवर्णकम्
करतोयां समासाद्य त्रिरात्रोपोषितो नरः । अश्वमेधमवाप्नोति शक्रलोकं च गच्छति
गंगायास्त्वथ राजेंद्र सागरस्य च संगमे । अश्वमेधं दशगुणं प्रवदंति मनीषणः
गंगायास्तु परं द्वीपं प्राप्य यः स्नाति भारत । त्रिरात्रोपोषितो राजन्सर्वकाममवाप्नुयात्
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् । विरजं तीर्थमासाद्य विराजति यथा शशी
प्रभावे च कुलं पूत्वा सर्वपापं व्यपोहति । गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः
शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्छुचिः । तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
शोणस्य नर्मदायाश्च प्रभवे कुरुपुंगव । वंशगुल्ममुपस्पृश्य वाजिमेधफलं लभेत्
ऋषभं तीर्थमासाद्य कोशलायां नराधिप । वाजिमेधमवाप्नोति त्रिरात्रोपोषितो नरः
कोशलायां समासाद्य कालतीर्थमुपस्पृशेत् । वृषभैकादशगुणं लभते नात्र संशयः
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः । गोसहस्रफलं विंद्यात्कुलं चैव समुद्धरेत्
ततो बदारिकातीर्थे स्नात्वा प्रयतमानसः । दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति
ततो महेंद्रमासाद्य जामदग्न्यनिषेवितम् । रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्
मतंगस्य तु केदारं तत्रैव भरतर्षभ । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् । अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति
श्रीपर्वते महादेवो देव्या सह महाद्युतिः । न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः । अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति
ऋषभं पर्वतं गत्वा भांडेषु सुरपूजितम् । वाजपेयमवाप्नोति नाकपृष्ठे च मोदते
ततो गच्छेत कावेरीं वृतामृप्सरसां गणैः । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत् । तत्रोपस्पृश्य राजेंद्र सर्वपापैः प्रमुच्यते
अथ गोकमर्णमासाद्य त्रिषुलोकेषु विश्रुतम् । समुद्रमध्ये राजेंद्र सर्वलोकनमस्कृतम्
यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः । भूतयक्षाः पिशाचाश्च किन्नराः समहोरगाः
सिद्धचारणगंधर्वा मानुषाः पन्नगास्तथा । सरितः सागराः शैला उपासंते उमापतिम्