दुर्जयान्नरकान्भुंक्त्वा गृध्रोऽभूद्विजने वने । भगंदरेण रोगेण सापि हित्वा वरां तनुम्
उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी । कणानादातुकामां तां संचरंतीमितस्ततः
विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन् । नृकपाले पयः पूर्णे निपतंतीं ततः शुकीम्
अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः । पत्नीवियोजिता प्राणैर्नृकपालजले ततः
तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः । पितृलोकं प्रपेदाते नीतौ तौ यमकिंकरैः । प्राक्कृतं दुष्कृतं कर्म स्मरंतौ भयभागिनौ
ततो यमः समालोक्य तयोः कर्म जुगुप्सितम् । अकस्मादेवतत्स्नानान्मरणे सुकृतं महत्
अनुजज्ञे ततो लोकमीप्सितं गंतुमेतयोः । महापातकसंघातैरपि दुर्द्धर्षमानसौ
ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम् । उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम्
संचितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम् । लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ
एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः । आसीद्गंगातटे नाम्ना बटुर्ब्रह्मविदुत्तमः
एकाकी निर्ममः शांतो वीतरागो विमत्सरः । गीतानां पंचमाध्यायमावर्त्तयति सर्वदा
तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम् । पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ
निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः । तत्कपालजलं प्राप्य युवां यातौ पवित्रताम्
तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान् । गीतानां पंचमाध्यायमाहात्म्येन पवित्रितौ
एवं तौ बोधितौ तेन मुदितौ समवर्तिना । व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये एकोनाशीत्यधिकशततमोऽध्यायः
ईश्वर उवाच- अतः परं प्रवक्ष्यामि भवानि भवमुक्तये । गीताचतुर्दशाध्यायमवधारय सुस्मिते
मेदिन्यां यत्किलस्थूलमस्ति काश्मीरमंडलम् । राजधानी सरस्वत्या आस्ते चैव मनोहरा
यामधिष्ठाय वाग्देवी ब्रह्मलोकं प्रयच्छति । हंसमारुह्यमानापि सावित्रीप्रहतैरपि
सरस्वतीपदांभोज सेवामाश्रित्य कुंकुमैः । यत्र गौरवयंत्याशा हंसपक्षपुटोद्भवैः
निरंतरं तया चैव नृणां संस्कृतभाषिणाम् । सुपर्वाणमयी भाषा निमेषेणोपलभ्यते
प्रातर्गृहांगणोद्भूतै र्यत्रकुंकुमपांसुलैः । सर्वतोरुणितच्छाय शशांकरविमंडलम्
तत्रासीत्तेजसां राशिः शौर्यवर्मा नरेश्वरः । उद्यदुज्ज्वलबाणौघ खंडितारातिमंडलः
अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः । नाम्ना विक्रमवेतालः कलानामपि शेवधिः
उभौ परस्परं मैत्रीं वर्द्धयांचक्रतुः क्रमात् । तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः
एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा । राजा विक्रमवेतालो विलोक्य शुनकीद्वयम्
मत्तमातंगतुरग मणिभूषणचामरम् । प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे
एकदा शिबिकारूढश्चारु चामरवीजितः । सुवर्णशृंखलारूढं वाद्यडिंडिमडंबरम्
शुनीयुगलमादाय मृगया कौतुकोत्सुकः । राजा जगाम बाह्यालीं समं राजकुमारकैः
पणबंधविधानेन समुपेतं शशामिषम् । तत्र राजकुमाराणां महान्कोलाहलोऽभवत्