ततस्तु वामनं गत्वा सर्वपापप्रणाशनम् । अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात्
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् । कौशिकीं तत्र सेवेत महापातकनाशिनीम्
राजसूयस्य यज्ञस्य फलं प्राप्नोतिमानवः । ततो गच्छेत धर्मज्ञ चंपकारण्यमुत्तमम्
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् । अथ गोविंदमासाद्य तीर्थं परमसम्मतम्
उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् । तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम्
मित्रावरुणयोर्लोकान्प्राप्नुयाद्भरतर्षभ । त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत्
कन्यावसथमासाद्य नियतो नियताशनः (आवसथ्य)। मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ
कन्यायां ये प्रयच्छंति दानमण्वपि भारत । तदक्षयमिति प्राहुरृषयः संशितव्रताः
निष्ठावासं समासाद्य त्रिषु लोकेषु विश्रुतम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
ये तु दानं प्रयच्छंति निष्ठायाः संगमे नराः । ते यांति नरशार्दूल ब्रह्मलोकमनामयम्
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात्
देवकूटं समासाद्य देवर्षिगणसेवितम् । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत राजेंद्र कौशिकस्य मुनेर्ह्रदम् । तत्र सिद्धिं परां प्राप विश्वामित्रोऽथ कौशिकः
यत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ । अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति
सर्वतीर्थवरं चैव यो वसेत महाह्रदम् । न दुर्गतिमवाप्नोति विंद्याद्बहुसुवर्णकम्
कुमारमभिगम्याथ वीराश्रमनिवासिनम् । अश्वमेधमवाप्नोति शक्रलोकं स गच्छति
नंदिन्यां च समासाद्य कूपं त्रिदशसेवितम् । नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह
कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः । त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते
उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः । कुंभकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः
तथा कोकामुखे स्नात्वा ब्रह्मचारी समाहितः । जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातनैः
सकृन्नदीं समासाद्य कृतार्थो भवति द्विजः । सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति
ऋषभद्वीपमासाद्य सेव्य क्रौंचनिषूदनम् । सरस्वत्यामुपस्पृश्य विमानस्थो विराजते
औद्यानकं महाराज तीर्थं मुनिनिषेवितम् । तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते
ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् । वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः
ततश्चंपां समासाद्य भागीरथ्यां कृतोदकः । दंडार्पणं समासाद्य गोसहस्रफलं लभेत्
लाविढिकां ततो गच्छेत्पुण्यां पुण्यनिषेविताम् । वाजपेयमवाप्नोति विमानस्थश्च पूज्यते
नारद उवाच- अथ संध्यां समासाद्य स विद्यांतीर्थमुत्तमम् । उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः
रामस्य च प्रसादेन तीर्थराजं कृतं पुरा । तल्लौहित्यं समासाद्य विंद्याद्बहुसुवर्णकम्
करतोयां समासाद्य त्रिरात्रोपोषितो नरः । अश्वमेधमवाप्नोति शक्रलोकं च गच्छति
गंगायास्त्वथ राजेंद्र सागरस्य च संगमे । अश्वमेधं दशगुणं प्रवदंति मनीषणः