ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप । अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेत्
ततो गच्छेत राजेंद्र धर्मपृष्ठं समाहितः । यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर
धर्म्मं तत्राभिसंगम्य वाजिमेधफलं लभेत् । ततो गच्छेत राजेंद्र ब्रह्मणस्तीर्थमुत्तमम्
तत्राभिगम्य ब्रह्माणमर्चयेन्नियतव्रतः । राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप । उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते
यक्षिण्या नैत्यकं तत्र प्रागग्निपुरुषः शुचिः । यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया
मणिनागं ततो गच्छेद्गोसहस्रफलं लभेत् । नैत्यकं भुंजते यस्तु मणिनागस्य मानवः
दष्टस्याशीविषेणास्य न विषं क्रमते नृप । तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप । अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम्
अभिगम्य श्रियं राजन्विंदते श्रियमुत्तमाम् । तत्रोदपानो धर्म्मज्ञ त्रिषु लोकेषु विश्रुतः
तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात् । जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः
तत्राभिषेकं कृत्वा च विष्णुलोकमवाप्नुयात् । ततोऽविनाशनं गच्छेत्सर्वपापप्रमोचनम्
वाजिमेधमवाप्नोति सोमलोकं च गच्छति । गंडकीं च समासाद्य सर्वतीर्थजलोद्भवाम्
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति । ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनम्
गुह्यकेषु महाभाग मोदते नात्र संशयः । कर्मदां तु समासाद्य नदीं सिद्धनिषेविताम्
पुंडरीकमवाप्नोति सोमलोकं च गच्छति । ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम्
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति । अथ माहेश्वरीं धारां समासाद्य नराधिप
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् । दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः
न दुर्गतिमवाप्नोति वाजपेयं च विंदति । अथ माहेशपदं गच्छेद्ब्रह्मचारी समाहितः
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् । तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ
कूर्मरूपेण राजेंद्र असुरेण दुरात्मना । ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना
तत्राभिषेकं कुर्वीत तीर्थकोट्यां नराधिप । पुंडरीकमवाप्नोति विष्णुलोकं च गच्छति
ततो गच्छेन्नरश्रेष्ठ स्थानं नारायणस्य च । सदा सन्निहितो यत्र हरिर्वसति भारत
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः । आदित्यावसवोरुद्रा जनार्दनमुपासते
शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः । अभिगम्य त्रिलोकेशं वरदं विष्णुमच्युतम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति । तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः
समुद्रास्तत्रचत्वारः कूपे सन्निहिताः सदा । तत्रोपस्पृश्य राजेंद्र न दुर्गतिमवाप्नुयात्
अभिगम्य महादेवं वरदं विष्णुमव्ययम् । विराजते यथा सोम ऋणैर्मुक्तो युधिष्ठिर
जातिस्मरं उपस्पृश्य शुचिः प्रयतमानसः । जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः
वटेश्वरपुरं गत्वा अर्चयित्वा च केशवम् । ईप्सिताँल्लभते लोकानुपवासान्न संशयः