यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यंत्यनेकं भवतः स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि नित्यम्
यतः प्रधानं पुरुषः पुराणो बिभर्ति तेजः प्रणमंति देवाः । नमामि तं ज्योतिषि सन्निविष्टं कालं बृहंतं भवतः स्वरूपम्
व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् । शिवं प्रपद्ये हरिमिंदुमौलिं पिनाकिनं त्वां शरणं व्रजामि
स्तुत्वैवं शंकुकर्णोऽपि भगवंतं कपर्दिनम् । पपात दंडवद्भूमौ प्रोच्चरन्प्रणवं परम्
तत्क्षणात्परमं लिंगं प्रादुर्भूतं शिवात्मकम् । ज्ञानमानंदमत्यंतं कोटिज्वालाग्निसन्निभम्
शंकुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः । निलिल्ये विमले लिंगे तदद्भुतमिवाभवत्
एतद्रहस्यमाख्यातं माहात्म्यं ते कपर्द्दिनः । न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति
य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् । त्यक्तपापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात्
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् । प्रातर्मध्याह्नसमये स योगं प्राप्नुयात्परम्
नारद उवाच- वाराणस्यां महाराज मध्यमेशं परात्परम् । तस्मिन्स्थाने महादेवो देव्या सह महेश्वरः
रमते भगवान्नित्यं रुद्रैश्च परिवारितः । तत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः
उवास वत्सरं कृष्णः सदा पाशुपतैर्युतः । भस्मोद्धूलितसर्वांगो रुद्राध्ययनतत्परः
आराधयन्हरिः शंभुं कृत्वा पाशुपतंव्रतम् । तस्य ते बहवः शिष्याः ब्रह्मचर्यपरायणाः
लब्ध्वा तद्वदनाज्ज्ञानं दृष्टवंतो महेश्वरम् । तस्य देवो महादेवः प्रत्यक्षं नीललोहितः
ददौ कृष्णस्य भगवान्वरदो वरमुत्तमम् । येऽर्चयंति च गोविंदं मद्भक्ता विधिपूर्वकम्
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मयम् । नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परैर्जनैः
भविष्यंति न संदेहो मत्प्रसादाद्द्विजातयः । येऽत्र द्रक्ष्यंति देवेशं स्नात्वा देवं पिनाकिनम्
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति । प्राणांस्त्यक्ष्यंति ये र्मत्याः पापकर्मरता अपि
ते यांति तत्परं स्थानं नात्र कार्या विचारणा । धन्यास्तु खलु ते विज्ञा मंदाकिन्यां कृतोदकाः
अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरम् । ज्ञानं दानं तपः श्राद्धं पिंडनिर्वपणं त्विह
एकैकशः कृतं कर्म पुनात्यासप्तमं कुलम् । सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे
यत्फलं लभते मर्त्त्यस्तस्माद्दशगुणं त्विह । एवमुक्तं महाराज माहात्म्यं मध्यमेश्वरे । यः शृणोति परं भक्त्या स याति परमं पदम्
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये षट्त्रिंशोऽध्यायः
नारद उवाच-। अन्यानि च महाराज तीर्थानि पावनानि तु । वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर
प्रयागादधिकं तीर्थं प्रयागं परमं शुभम् । विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम्
आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् । सुनीलं च महातीर्थं गौरीतीर्थमनुत्तमम्
प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च । जंबुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम्
गयातीर्थं परं तीर्थं तीर्थं चैव महानदी । नारायणपरं तीर्थं वायुतीर्थमनुत्तमम्
ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् । यमतीर्थं यथापुण्यं तीर्थं संमूर्तिकं शुभम्
अग्नितीर्थं महाराज कलशेश्वरमुत्तमम् । नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च