तस्मात्सदैव द्रष्टव्यं कपर्दीश्वरमुत्तमम् । पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैस्तवैः
ध्यायतां चात्र नियतं योगिनां शांतचेतसाम् । जायते योगसिद्धिः स्यात्षण्मासेन न संशयः
ब्रह्महत्यादयः पापा विनश्यंत्यस्य पूजनात् । पिशाचमोचने कुंडे स्नातः स्यात्प्रशमो यतः
तस्मिन्क्षेत्रे पुरा विप्रस्तपस्वी संशितव्रतः । शंकुकर्ण इति ख्यातः पूजयामास शंकरम्
जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् । पुष्पधूपादिभिस्तोत्रैः नमस्कारैः प्रदक्षिणैः
उपासीतात्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम् । कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम्
अस्थिचर्म पिनद्धांगं निश्वसंतं मुहुर्मुहुः । तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः
प्रोवाच को भवान्कस्माद्देशाद्देशमिमं श्रितः । तस्मै पिशाचः क्षुधया पीड्यमानोऽब्रवीद्वचः
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः । पुत्रपौत्रादिभिर्युक्तः कुटुंबभरणोत्सुकः
न पूजिता महादेवा गावोऽप्यतिथयस्तथा । न कदाचित्कृतं पुण्यमल्पं वानल्पमेव च
एकदा भगवान्देवो वृषभेश्वरवाहनः । विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः
तदाचिरेण कालेन पंचत्वमहमागतः । न दृष्टं तन्महाघोरं यमस्य सदनं मुने
पिपासयाधुनाक्रांतो न जानामि हिताहितम् । यदि कंचित्समुद्धर्तुमुपायं पश्यसि प्रभो
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः । इत्युक्तः शंकुकर्णोऽथ पिशाचमिदमब्रवीत्
तादृशो नहि लोकेस्मिन्विद्यते पुण्यकृत्तमः । यत्त्वया भगवान्पूर्वं दृष्टो विश्वेश्वरः शिवः
संस्पृष्टो वंदितो भूयः कोऽन्यस्त्वत्सदृशो भुवि । तेन कर्मविपाकेन देशमेतं समागतः
स्नानं कुरुष्व शीघ्रं त्वमस्मिन्कुंडे समाहितः । येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि
स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् । स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोवगाहम्
तदावगाढो मुनिसन्निधाने ममार दिव्याभरणोपपन्नः । अदृश्यतार्कप्रतिमो विमाने शशांकचिह्नीकृतचारुमौलि
विभाति रुद्रैः सहितो दिविष्ठैः समाभृतो योगिरिभरप्रमेयैः । स वालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः
स्तुवंति सिद्धादि विदेवसंघा नृत्यंति दिव्याप्सरसोऽभिरामाः । मुंचंति वृष्टिं कुसुमांबुमिश्रां गंधर्वविद्याधरकिन्नराद्याः
संस्तूयमानोऽथ मुनींद्रसंघैरवाप्य बोधं भगवत्प्रसादात् । समाविशन्मंडलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः
दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् । विचिंत्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम्
शंकुकर्ण उवाच-। कपर्दिनं त्वां परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीप्सितारमादित्यमग्निं कपिलाधिरूढम्
त्वां ब्रह्मसारं हृदि संनिविष्टं हिरण्मयं योगिनमादिमं तम् । व्रजामि रुद्रं शरणं दिविष्ठं महामुनिं ब्रह्ममयं पवित्रम्
सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपं तमसः परस्तात् । तं ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम्
यत्र प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवंतमीशं प्रणम्य नित्यं शरणं प्रपद्ये
अलिंगमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमेकरूपम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति
यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः । पश्यंति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं परमस्वरूपम्
न यत्र नामादिविशेष कॢप्तिर्न संदृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये