तत्र देवर्षयः पूर्वं सिद्धाब्रह्मर्षयस्तथा । उपास्य देवमीशानमापुरंतः परं पदम्
मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम् । गोचर्ममात्रं राजेंद्र ॐकारेश्वरमुत्तमम्
कृत्तिवासेश्वरं लिंगं मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोंकारंकंदर्पेश्वरमेव च
एतानि गुह्यलिंगानि वाराणस्यां युधिष्ठिर । न कश्चिदिह जानाति विना शंभोरनुग्रहात्
कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव । तस्मिन्स्थाने पुरा दैत्यो हस्ती भूत्वा शिवांतिकम्
ब्राह्मणान्हंतुमायातो यत्र नित्यमुपासते । तेषां लिंगान्महादेवः प्रादुरासीत्त्रिलोचनः
रक्षणार्थं महादेवो भक्तानां भक्तवत्सलः । हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः
वासस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः । तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर
तेनैव च शरीरेण प्राप्तास्तत्परमं पदम् । विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्त्तिताः
कृत्तिवासेश्वरं लिंगं नित्यमाश्रित्य संस्थिताः । ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः
कृत्तिवासं न मुंचंति कृतार्थास्ते न संशयः । जन्मांतरसहस्रेण मोक्षो यत्राप्यते न वा
एकेन जन्मना मोक्षः कृत्तिवासेऽत्र लभ्यते । आलयं सर्वसिद्धानामेतत्स्थानं वदंति हि
गोपितं देवदेवेन महादेवेन शंभुना । युगेयुगे ह्यत्र दांता ब्राह्मणा वेदपारगाः
उपासंते महात्मानं जपंति शतरुद्रियम् । स्तुवंति सततं देवं त्र्यंबकं कृत्तिवाससम् । ध्यायंति हृदये देवं स्थाणुं सर्वांतरं शिवम्
गायंति सिद्धाः किल गीतकानि वाराणसीं ये निवसंति विप्राः । तेषामथैकेन भवेद्विमुक्तिर्ये कृत्तिवासं शरणं प्रपन्नाः
संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म । ध्याने समाधाय जपंति रुद्रं ध्यायंति चित्ते यतयो महेशम्
आराधयंति प्रभुमीशितारं वाराणसीमध्यगता मुनींद्राः । यजंति यज्ञैरभिसंधिहीनाः स्तुवंति रुद्रं प्रणमंति शंभुम्
नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम्
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुस्त्रिंशोऽध्यायः
नारद उवाच- अथान्यत्तत्र वै लिंगं कपर्दीश्वरमुत्तमम् । स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन्नृप
मुच्यते सर्वपापेभ्यो मुक्तिं भुक्तिं च विंदति । पिशाचमोचनं नाम तीर्थमन्यत्ततः स्थितम्
तत्राश्चर्यमयो देवो मुक्तिदः सर्वदोषहः । कश्चिद्दैत्यो जगामेदं शार्दूलो घोररूपधृक्
मृगीमेकां भक्षयितुं कपर्दीश्वरमुत्तमम् । तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम्
धावमाना सुसंभ्रांता व्याघ्रस्य वशमागता । तां विदार्य नखैस्तीक्ष्णैः शार्दूलः स महाबलः
जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् । मृतमात्रा च सा बाला कपर्दीशाग्रतो मृगी
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा । त्रिनेत्रा नीलकंठा च शशांकांकित मूर्द्धजा
वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता । पुष्पवृष्टिं विमुंचंति खेचरास्तत्समंततः
गणेश्वरी स्वयं भूत्वा न दृष्टा तत्क्षणात्ततः । दृष्ट्वा तदाश्चर्यवरं प्रशशंसुः सुरादयः
तन्महेशस्य वै लिंगं कपर्दीश्वरमुत्तमम् । स्मृत्वैवाशेषपापौघात्क्षिप्रमस्य विमुंचति
कामक्रोधादयो दोषा वाराणसी निवासिनाम् । विघ्नाः सर्वे विनश्यंति कपर्दीश्वरपूजनात्