महापातकिनो देवि ये तेभ्यः पापकृत्तमाः । वाराणसीं समासाद्य ते यांति परमां गतिम्
तस्मान्मुमुक्षुर्नियतो वसेद्वै मरणांतकम् । वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते
किंतु विघ्ना भविष्यंति पापोपहतचेतसः । ततो नैवाचरेत्पापं कायेन मनसा गिरा
एतद्रहस्यं देवानां पुराणानां च सुव्रते । अविमुक्ताश्रयं ज्ञानं न कश्चिद्वेत्ति तत्त्वतः
नारद उवाच-। देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् । देवदेवेन कथितं सर्वपापविनाशनम्
यथानारायणः श्रेष्ठो देवानां पुरुषोत्तमः । यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम्
यैः समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि । ते विदंति परं क्षेत्रमविमुक्तं शिवालयम्
कलिकल्मषसंभूता येषामुपहृता मतिः । न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः
ये स्मरंति सदा कालं वदंति च पुरीमिमाम् । तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्
यानि चेह प्रकुर्वंति पातकानि कृतालयाः । नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः
आगच्छेत्तदिदं स्थानं सेवितं मोक्षकांक्षिभिः । मृतानां च पुनर्जन्म न भूयो भवसागरे
तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः । योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः
न लोकवचनात्पित्रोर्न चैव गुरुवादतः । मतिर्न क्रमणीया स्यादविमुक्तगतिं प्रति
नारद उवाच- तत्रेदं विमलं लिगमोंकारंनाम शोभनम् । यस्य स्मरणमात्रेण मुच्यते सर्वपातकैः
एतत्परतरं ज्ञानं पंचायतनमुत्तमम् । सेवितं मुनिर्भिर्नित्यं वाराणस्यां विमोक्षणम्
तत्र साक्षान्महादेवः पंचायतनविग्रहः । रमते भगवान्रुद्रो जंतूनामपवर्गदः
एतत्पाशुपतं ज्ञानं पंचायतनमुच्यते । तदेतद्विमलं लिगमोंकारं समुपस्थितम्
शांत्यतीता तथा शांतिर्विद्या चैवापरा वरा । प्रतिष्ठा च निवृत्तिश्च पंचात्मं लिंगमैश्वरम्
पंचानामपि लिंगानां ब्रह्मादीनां समाश्रयम् । ॐकारबोधकं लिंगं पंचायतनमुच्यते
संस्मरेदीश्वरं लिंगं पंचायतनमव्ययम् । देहांते परमं ज्योतिरानंदं विशते बुधः
तत्र देवर्षयः पूर्वं सिद्धाब्रह्मर्षयस्तथा । उपास्य देवमीशानमापुरंतः परं पदम्
मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम् । गोचर्ममात्रं राजेंद्र ॐकारेश्वरमुत्तमम्
कृत्तिवासेश्वरं लिंगं मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोंकारंकंदर्पेश्वरमेव च
एतानि गुह्यलिंगानि वाराणस्यां युधिष्ठिर । न कश्चिदिह जानाति विना शंभोरनुग्रहात्
कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव । तस्मिन्स्थाने पुरा दैत्यो हस्ती भूत्वा शिवांतिकम्
ब्राह्मणान्हंतुमायातो यत्र नित्यमुपासते । तेषां लिंगान्महादेवः प्रादुरासीत्त्रिलोचनः
रक्षणार्थं महादेवो भक्तानां भक्तवत्सलः । हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः
वासस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः । तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर
तेनैव च शरीरेण प्राप्तास्तत्परमं पदम् । विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्त्तिताः
कृत्तिवासेश्वरं लिंगं नित्यमाश्रित्य संस्थिताः । ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः