इत्युक्त्वांतर्दधे धीमान्पुरतस्तस्य पश्यतः । विस्मितस्तस्य चादेशात्सोऽन्वतिष्ठदनारतम्
ततः कालेन महता भावितात्मा प्रसन्नधीः । यत्रयत्र चचारासौ शांतं तत्तत्तपोवनम्
न द्वंद्वबाधा नैव क्षुत्पिपासा न च वा भयम् । तपसा तस्य जानीहि द्वितीयाध्यायजापिनः
मित्रवानुवाच। एवमुक्तश्च तेनाऽहं ख्यापयित्वा परां कथाम् । अनुज्ञातप्रसंनेन च्छागीव्याघ्रयुतोगमम्
गत्वा शिलातले पश्यमध्यायं लिखितं पठेत् । तस्यैवावर्त्तनादाप्तं तपसः पारमुत्तमम्
तेन त्वमपि कल्याण नित्यमाहर्तुमर्हसि । अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति
देवशर्मा समादिष्टस्तेन मित्रवता स्वयम् । अभ्यर्च्य प्रणतो भूत्वा पुरंदरपुरं ययौ
तत्रात्मविदमासाद्य देवतायतने क्वचित् । वृत्तमेतन्निवेद्यादावध्यायमपठत्ततः
शिक्षितस्तेन पूतात्मा पठन्नध्यायमादरात् । द्वितीयमाससादोच्चैर्निरवद्यं परं पदम्
द्वितीयस्येदमाख्यानं कथितं शृणु सांप्रतम् । तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेंदिरे
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता। माहात्म्ये सतीश्वरसंवादे षट्सप्तत्यधिकशततमोऽध्यायः
श्रीभगवानुवाच। पंचमस्याधुना देवि माहात्म्यं लोकपूजितम् । कथयामि समासेन सावधाना शृणु प्रिये
पिंगलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः । अवदाते कुले जातो विश्रुते वेदवादिनाम्
कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः । तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम्
कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने । परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः
समातस्थे स तेनासौ पुरा भूमिभुजा सह । परदारानुपाहृत्य बुभुजे ता अनन्यधीः
तत उत्सिक्तगर्वोऽयं सूचमानो निरंकुशः । परच्छिद्राणि चामुष्मै विविक्ते स निरंतरम्
तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा
भ्रमत्यन्वेषयंती सा कामुकेन विहारिणी । तमंतरायं मन्वाना निशीथिन्यां निजालये
निजघान शिरश्छित्त्वा निचखान महीतले । वियोजितस्तः प्राणैरुपेत्य यमसादनम्
दुर्जयान्नरकान्भुंक्त्वा गृध्रोऽभूद्विजने वने । भगंदरेण रोगेण सापि हित्वा वरां तनुम्
उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी । कणानादातुकामां तां संचरंतीमितस्ततः
विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन् । नृकपाले पयः पूर्णे निपतंतीं ततः शुकीम्
अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः । पत्नीवियोजिता प्राणैर्नृकपालजले ततः
तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः । पितृलोकं प्रपेदाते नीतौ तौ यमकिंकरैः । प्राक्कृतं दुष्कृतं कर्म स्मरंतौ भयभागिनौ
ततो यमः समालोक्य तयोः कर्म जुगुप्सितम् । अकस्मादेवतत्स्नानान्मरणे सुकृतं महत्
अनुजज्ञे ततो लोकमीप्सितं गंतुमेतयोः । महापातकसंघातैरपि दुर्द्धर्षमानसौ
ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम् । उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम्
संचितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम् । लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ
एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः । आसीद्गंगातटे नाम्ना बटुर्ब्रह्मविदुत्तमः