दुर्ल्लभा तपसा चापि मृतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी
प्रसादाज्जायते सम्यक्मम शैलेंद्रनंदिनि । अप्रवृद्धा न पश्यंति मम मायाविमोहिताः
विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः । हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि
स याति परमं स्थानं यत्र गत्वा न शोचति । जन्ममृत्युजरामुक्तं परं यांति शिवालयम्
अपुनर्मरणानां हि सा गतिर्मोक्षकांक्षिणाम् । यां प्राप्य कृतकृत्यः स्यादिति मन्यंति पंडिताः
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया । प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते
नानावर्णा विवर्णाश्च चांडालाद्या जुगुप्सिताः । किल्बिषैः पूर्णदेहाश्च विशिष्टैः पातकैस्तथा
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः । अविमुक्तं परं ज्ञानमविमुक्तं परं पदम्
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् । कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसंति ये
तेषां तत्परमं ज्ञानं ददाम्यंते परं पदम् । प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम्
केदारं भद्रकर्णं तु गया पुष्करमेव च । कुरुक्षेत्रं भद्रकोटिर्नर्मदाम्रातकेश्वरी
शालग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् । प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम्
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह । न यास्यंति परं तत्त्वं वाराणस्यां यथा मृताः
वाराणस्यां विशेषेण गंगा त्रिपथगामिनी । प्रविष्टा नाशयेत्पापं जन्मांतरशतैः कृतम्
अन्यत्र सुलभा गंगा श्राद्धं दानं तपो जपः । व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्ल्लभम्
जपेच्च जुहुयान्नित्यं ददात्यर्चयतेऽमरान् । वायुभक्षश्च सततं वाराणस्यां स्थितो नरः
यदि पापो यदि शठो यदि वा धार्मिको नरः । वाराणसीं समासाद्य पुनाति सकलं कुलम्
वाराणस्यां येऽर्चयंति महादेवं स्तुवंति वै । सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः
अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः । प्राप्यते तत्परं स्थानं सहस्रेणैव जन्मनाम्
ये भक्ता देवदेवेशि वाराणस्यां वसंति वै । ते विंदंति परं मोक्षमेकेनैव तु जन्मना
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना । अविमुक्तं तदासाद्य नान्यदिच्छेत्तपोवनम्
यतो मयाऽविमुक्तं तदविमुक्तं ततः स्मृतम् । तदेव गुह्यं गुह्यानामेतद्विज्ञानमुच्यते
ज्ञानाज्ञानाभिनिष्ठानां परमानंदमिच्छताम् । यागतिर्विदिता सुभ्रूः साविमुक्ते मृतस्य तु
यानि चैवाविमुक्तस्य देहे दृष्टानि कृत्स्नशः । पुरी वाराणसी तेभ्यः स्थानेभ्योऽप्यधिका शुभा
यत्र साक्षान्महादेवो देहांते स्वयमीश्वरः । व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तये
यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम् । एकेन जन्मना देवि वाराणस्यां तदाप्नुयात्
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि । यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम्
वरणायास्तथा चास्या मध्ये वाराणसीपुरी । तत्रैव संस्थितं तत्त्वं नित्यमेवंविमुक्तकम्
वाराणस्याः परं स्थानं न भूतं न भविष्यति । यत्र नारायणो देवो महादेवो दिवीश्वरः
तत्र देवाः सगंधर्वाः सयक्षोरगराक्षसाः । उपासते यं सततं देवदेवः पितामहः