भूर्लोके नैव संलग्नमंतरिक्षे ममालयम् । अमुक्तास्तत्र पश्यंति मुक्ताः पश्यंति चेतसा
श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम् । कालो भूत्वा जगदिदं संहराम्यत्र सुंदरि
देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम । मद्भक्तास्तत्र गच्छंति मामेव प्रविशंति च
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत्
जन्मांतरसहस्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः । स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते वरानने
चंद्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः । शिवे मम पुरे देवि जायंते तत्र मानवाः
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी । ईश्वरानुगृहीता हि सर्वे यांति परां गतिम्
मोक्षं सुदुर्ल्लभं मत्वा संसारं चातिभीषणम् । अश्मना चरणौ भंक्त्वा वाराणस्यां वसेन्नरः
दुर्ल्लभा तपसा चापि मृतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी
प्रसादाज्जायते सम्यक्मम शैलेंद्रनंदिनि । अप्रवृद्धा न पश्यंति मम मायाविमोहिताः
विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः । हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि
स याति परमं स्थानं यत्र गत्वा न शोचति । जन्ममृत्युजरामुक्तं परं यांति शिवालयम्
अपुनर्मरणानां हि सा गतिर्मोक्षकांक्षिणाम् । यां प्राप्य कृतकृत्यः स्यादिति मन्यंति पंडिताः
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया । प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते
नानावर्णा विवर्णाश्च चांडालाद्या जुगुप्सिताः । किल्बिषैः पूर्णदेहाश्च विशिष्टैः पातकैस्तथा
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः । अविमुक्तं परं ज्ञानमविमुक्तं परं पदम्
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् । कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसंति ये
तेषां तत्परमं ज्ञानं ददाम्यंते परं पदम् । प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम्
केदारं भद्रकर्णं तु गया पुष्करमेव च । कुरुक्षेत्रं भद्रकोटिर्नर्मदाम्रातकेश्वरी
शालग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् । प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम्
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह । न यास्यंति परं तत्त्वं वाराणस्यां यथा मृताः
वाराणस्यां विशेषेण गंगा त्रिपथगामिनी । प्रविष्टा नाशयेत्पापं जन्मांतरशतैः कृतम्
अन्यत्र सुलभा गंगा श्राद्धं दानं तपो जपः । व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्ल्लभम्
जपेच्च जुहुयान्नित्यं ददात्यर्चयतेऽमरान् । वायुभक्षश्च सततं वाराणस्यां स्थितो नरः
यदि पापो यदि शठो यदि वा धार्मिको नरः । वाराणसीं समासाद्य पुनाति सकलं कुलम्
वाराणस्यां येऽर्चयंति महादेवं स्तुवंति वै । सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः
अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः । प्राप्यते तत्परं स्थानं सहस्रेणैव जन्मनाम्
ये भक्ता देवदेवेशि वाराणस्यां वसंति वै । ते विंदंति परं मोक्षमेकेनैव तु जन्मना