एककालं निराहारो लोकान्संवसते शुभान् । षष्ठकालोपवासेन मासमुष्य महालये
तीर्णस्तारयते जंतून्दशपूर्वान्दशापरान् । दृष्ट्वा माहेश्वरं पुण्यं परं सुरनमस्कृतम्
कृतार्थः सर्वकृत्येषु न शोचेन्मरणं क्वचित् । सर्वपापविशुद्धात्मा विंद्याद्बहुसुवर्णकम्
अथ वेतसिकां गच्छेत्पितामहनिषेविताम् । अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्
अथ सुंदरिकां तीर्थं प्राप्य सिद्धनिषेविताम् । रूपस्य भागी भवति दृष्टमेतत्पुरातनैः
ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः । पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते
ततश्च नैमिषं गच्छेत्पुण्यं द्विजनिषेवितम् । तत्र नित्यं निवसति ब्रह्मा देवगणैः सह
नैमिषं प्रार्थयानस्य पापस्यार्द्धं प्रणश्यति । प्रविष्टमानस्तु नरः सर्वपापात्प्रमुच्यते
युधिष्ठिर उवाच- वाराणस्याश्च माहात्म्यं संक्षेपात्कथितं त्वया । विस्तरेण मुने ब्रूहि तदा प्रीणाति मे मनः
नारद उवाच-। अत्रेतिहासं वक्ष्यामि वाराणस्या गुणाश्रयम् । यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया
मेरुशृंगे पुरा देवमीशानं त्रिपुरद्विषम् । देवासनगता देवी महादेवमपृच्छत
देव्युवाच-। देवदेव महादेव भक्तानामार्तिनाशन । कथं त्वां पुरुषो देवमचिरादेव पश्यति
सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः । आयासबहुला लोके यानि चान्यानि शंकर
येन विश्रांतचित्तानां योगिनां कर्मिणामपि । दृश्यो हि भगवान्सूक्ष्मः सर्वेषामथ देहिनाम्
एतद्गुह्यतमं ज्ञानं गूढं शक्रादिसेवितम् । हिताय सर्वभूतानां ब्रूहि कामाग्निनाशनम्
ईश्वर उवाच-। अवाच्यमत्र विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् । वक्ष्ये तव यथातत्त्वं यदुक्तं परमर्षिभिः
परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्वेषामेव भूतानां संसारार्णवतारिणी
तत्र भक्त्या महादेवि मदीयं व्रतमास्थिताः । निवसंति महात्मानः परं नियममास्थिताः
उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च यत् । ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम
स्थानांतर पवित्राणि तीर्थान्यायतनानि च । श्मशानसंस्थितान्येव दिव्यभूमिगतानि च
भूर्लोके नैव संलग्नमंतरिक्षे ममालयम् । अमुक्तास्तत्र पश्यंति मुक्ताः पश्यंति चेतसा
श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम् । कालो भूत्वा जगदिदं संहराम्यत्र सुंदरि
देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम । मद्भक्तास्तत्र गच्छंति मामेव प्रविशंति च
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत्
जन्मांतरसहस्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः । स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते वरानने
चंद्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः । शिवे मम पुरे देवि जायंते तत्र मानवाः
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी । ईश्वरानुगृहीता हि सर्वे यांति परां गतिम्
मोक्षं सुदुर्ल्लभं मत्वा संसारं चातिभीषणम् । अश्मना चरणौ भंक्त्वा वाराणस्यां वसेन्नरः