पश्यंतो विष्णुरूपेण जगत्सर्वं चराचरम् । चरंति लीलया पृथ्वद्यंतेऽन्योन्यं मौनमास्थिताः
न कुर्वंति क्रियां कांचिदर्थमात्रं हि योगिनः । दृष्टज्ञाना असंदेहाश्चिद्विकार विशारदाः
एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि । तिष्ठतो मध्यदेशेषु पुत्रदारकुटुंबिनः
गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः । वैश्वदेवांतरे काले त्वया दृष्टा गृहांगणे
सगद्गदं साश्रुनेत्रं सहर्षं च ससंभ्रमम् । दंडवत्प्रणिपातेन बहुमानपुरःसरम्
प्रणम्य चरणौ मूर्ध्ना कृत्वा पाणियुगाञ्जलिम् । तदाभिनन्दिताः सर्वे तया सूनृतया गिरा
अद्य मे सफलं जन्म जीवितं सफलं तथा । अद्य विष्णुः प्रसन्नो मे सनाथोऽद्यास्मि पावनः
धन्योऽस्म्यद्य गृहं धन्यं धन्या अद्य कुटुंबिनः । ममाद्य पितरो धन्या धन्या गावः श्रुतं धनम्
यद्दृष्टौ भवतां पादौ तापत्रयहरौ मया । भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव
एवं संपूज्य कृत्वा तु पादप्रक्षालनं तथा । धृतं मूर्ध्नि विशांश्रेष्ठ श्रद्धया परया तदा
यत्र पादोदकं वैश्य श्रद्धया शिरसा धृतम् । गंधपुष्पाक्षतैर्धूपैर्दीपैर्भावपुरःसरम्
संपूज्य सुंदरान्नेन भोजिता यतयस्तथा । तृप्ताः परमहंसास्ते विश्रांता मंदिरे निशि
ध्यायंतश्च परं ब्रह्म यज्ज्योतिर्ज्योतिषां मतम् । तेषामातिथ्यजं पुण्यं जातं यत्ते विशांवर
न तद्वक्त्रसहस्रेण वक्तुं शक्नोम्यहं खलु । भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः
मतिमत्सु सुराः श्रेष्ठा नरेषु ब्रह्मजातयः । ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । अतएव सुपूज्यास्ते तस्माच्छ्रेष्ठा जगत्त्रये
तत्संगतिर्विशांश्रेष्ठ महापातकनाशिनी । विश्रांता गृहिणो गेहे संतुष्टा ब्रह्मवेदिनः
आजन्मसंचितं पापं नाशयंतीक्षणेन वै । संचितं यद्गृहस्थस्य पापमामरणांतिकम्
विनिर्दहति तत्सर्वमेकरात्रोषितो यतिः । स्वभ्रात्रे देहि तत्पुण्यं नरकाद्येन मुच्यते
इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम् । हृष्टेन चेतसा भ्राता निरयात्सोऽपि निर्गतः
देवैस्तु पुष्पवर्षेण पूजितौ च दिवंगतौ । ताभ्यां संपूजितः सम्यग्गतो दूतो यथागतः
अखिलभुवनबोधं देवदूतस्यवाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य । स्वकृतसुकृतदानाद्भ्रातरं तारयित्वा सुरपतिवरलोकं तेन सार्द्धं जगाम
इतिहासमिमं राजन्यः पठेच्छृणुयादपि । स गोसहस्रदानस्य विशोको लभते फलम्
नारदउवाच- ततो गच्छेत राजेंद्र सुगंधंलोकविश्रुतम् । सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते
गंगायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे । स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति
तत्र कर्णह्रदे स्नात्वा देवमभ्यर्च्य शंकरम् । न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति
ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् । गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति
अरुंधतीवटं गच्छेत्तीर्थसेवी नराधिप । सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः
गोसहस्रफलं विंद्यात्स्वर्गलोकं च गच्छति । ब्रह्मावर्त्तं ततो गच्छेद्ब्रह्मचारी समाहितः