इंद्रियाणां निरोधश्च दानं च हरिसेवनम् । वर्णाश्रमक्रियाणां च पालनं विधितः सदा
स्वर्गार्थी सर्वदा वैश्य तपोदानं न कीर्तयेत् । यथाशक्ति तथा दद्यादात्मनो हितकाम्यया
उपानद्वस्त्रमन्नानि पत्रं मूलं फलं जलम् । अवंध्यं दिवसं कार्य्यं दरिद्रेणापि वैश्यक
इहलोके परे चैव न दत्तं नोपतिष्ठते । दातारो नैव पश्यंति तां तां वै यमयातनाम्
दीर्घायुषो धनाढ्याश्च भवंतीह पुनःपुनः । किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम्
आरोहंति दिवं धर्म्मे नराः सर्वत्र सर्वदा
तेन बालत्वमारभ्य कर्तव्यो धर्मसंग्रहः । इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि
विकुंडल उवाच- श्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मे । गंगोदं पापहं सद्यः पापहारि सतां वचः
उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम् । शीतांशुः क्रियते केन शीतलोऽमृतमंडलः
देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः । नरकान्निष्कृतिः सद्यो भ्रातुर्मे जायते कथम्
इति तस्य वचः श्रुत्वा देवदूतो जगाद ह । ध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्री रज्जुबन्धनः
यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि संचितम् । तद्भ्रात्रे दीयतां सर्वं स्वर्गं तस्य यदीच्छसि
विकुंडल उवाच- किं तत्पुण्यं कथं जातं किं जन्म च पुरातनम् । तत्सर्वं कथ्यतां दूत ततो दास्यामि सत्वरम्
देवदूत उवाच- शृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम् । पुरा मधुवने पुण्ये ऋषिरासीच्च शाकुनिः
तपोऽध्ययन संपन्नस्तेजसां ब्रह्मणा समः । जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव
ध्रुवः शीलो बुधस्तारो ज्योतिष्मानुत पंचमः । अग्निहोत्ररता ह्येते गृहधर्मेषु रेमिरे
निर्मोहो जितकामश्च ध्यानकोशो गुणाधिकः । एते गृहविरक्ताश्च चत्वारो द्विजसूनवः
चतुर्थाश्रममापन्नाः सर्वकामविनिस्पृहाः । ग्रामैकवासिनः सर्वे निःसंगा निष्परिग्रहाः
निराशा निष्प्रयत्नाश्च सम लोष्टाश्मकांचनाः । येनकेनचिदाच्छन्ना येनकेनचिदाशिताः
सायंग्रहास्तथा नित्यं विष्णुध्यानपरायणाः । जितनिद्रा जिताहारा वातशीतसहिष्णवः
पश्यंतो विष्णुरूपेण जगत्सर्वं चराचरम् । चरंति लीलया पृथ्वद्यंतेऽन्योन्यं मौनमास्थिताः
न कुर्वंति क्रियां कांचिदर्थमात्रं हि योगिनः । दृष्टज्ञाना असंदेहाश्चिद्विकार विशारदाः
एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि । तिष्ठतो मध्यदेशेषु पुत्रदारकुटुंबिनः
गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः । वैश्वदेवांतरे काले त्वया दृष्टा गृहांगणे
सगद्गदं साश्रुनेत्रं सहर्षं च ससंभ्रमम् । दंडवत्प्रणिपातेन बहुमानपुरःसरम्
प्रणम्य चरणौ मूर्ध्ना कृत्वा पाणियुगाञ्जलिम् । तदाभिनन्दिताः सर्वे तया सूनृतया गिरा
अद्य मे सफलं जन्म जीवितं सफलं तथा । अद्य विष्णुः प्रसन्नो मे सनाथोऽद्यास्मि पावनः
धन्योऽस्म्यद्य गृहं धन्यं धन्या अद्य कुटुंबिनः । ममाद्य पितरो धन्या धन्या गावः श्रुतं धनम्
यद्दृष्टौ भवतां पादौ तापत्रयहरौ मया । भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव
एवं संपूज्य कृत्वा तु पादप्रक्षालनं तथा । धृतं मूर्ध्नि विशांश्रेष्ठ श्रद्धया परया तदा