यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम् । कृत्वापि बहुशः पापं नरो मोहसमन्वितः
न याति नरकं गत्वा सर्वपापहरं हरिम् । पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् । देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः
न तेषां यमसालोक्यं न ते स्युर्नरकौकसः । वैष्णवः पुरुषो वैश्य शिवनिंदां करोति यः
न विंदेद्वैष्णवं लोकं स याति नरकं महत् । उपोष्यैकादशीमेकां प्रसंगेनापि मानवः
न याति यातनां यामीमिति लोमशतः श्रुतम् । नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते
उभयं पद्मनाभस्य दिनं पातकनाशनम् । तावत्पापानि देहेऽस्मिन्वसंतीह विशांवर
यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् । अश्वमेधसहस्राणि राजसूयशतानि च
एकादश्युपवासस्य कलां नार्हंति षोडशीम् । एकादशेंद्रियैः पापं यत्कृतं वैश्य मानवैः
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् । एकादशीसमं किंचित्पुण्यं लोके न विद्यते
व्याजेनापि कृता यैस्तु वशं यांति न भास्करेः । स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी
सुकलत्रप्रदा ह्येषा जीवत्पुत्रप्रदायिनी । न गंगा न गया वैश्य न काशी न च पुष्करम्
न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु । यमुना चन्द्रभागा न तुल्या हरिदिनेन तु
अनायासेन येनात्र प्राप्यते वैष्णवं पदम् । रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिने
दश वै पैतृके पक्षे मातृके दश पूर्वजाः । प्रियाया दश ये वैश्य तानुद्धरति निश्चितम्
द्वंद्वसंग परित्यक्ता नागारि कृतकेतनाः । स्रग्विणः पीतवसनाः प्रयांति हरिमंदिरम्
बालत्वे यौवने वापि वार्द्धके वा विशांवर । उपोष्यैकादशीं नूनं नैति पापोऽतिदुर्गतिम्
उपोष्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम् । दत्वा हेमतिलान्गाश्च स्वर्गं यांतीह मानवाः
तीर्थे स्नांति न ये वैश्य न दत्तं कांचनं च यैः । नैव तप्तं तपः किंचित्ते स्युः सर्वत्र दुःखिताः
संक्षिप्य कथितं धर्म्मं नरकस्य निरूपणम् । अद्रोहः सर्वभूतेषु वाङ्मनः काय कर्मभिः
इंद्रियाणां निरोधश्च दानं च हरिसेवनम् । वर्णाश्रमक्रियाणां च पालनं विधितः सदा
स्वर्गार्थी सर्वदा वैश्य तपोदानं न कीर्तयेत् । यथाशक्ति तथा दद्यादात्मनो हितकाम्यया
उपानद्वस्त्रमन्नानि पत्रं मूलं फलं जलम् । अवंध्यं दिवसं कार्य्यं दरिद्रेणापि वैश्यक
इहलोके परे चैव न दत्तं नोपतिष्ठते । दातारो नैव पश्यंति तां तां वै यमयातनाम्
दीर्घायुषो धनाढ्याश्च भवंतीह पुनःपुनः । किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम्
आरोहंति दिवं धर्म्मे नराः सर्वत्र सर्वदा
तेन बालत्वमारभ्य कर्तव्यो धर्मसंग्रहः । इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि
विकुंडल उवाच- श्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मे । गंगोदं पापहं सद्यः पापहारि सतां वचः
उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम् । शीतांशुः क्रियते केन शीतलोऽमृतमंडलः
देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः । नरकान्निष्कृतिः सद्यो भ्रातुर्मे जायते कथम्