यः पूजयेच्च गोविंदं शालग्रामे मुदा नरः । आभूतसंप्लवं यावन्न स प्रच्यवते दिवः
विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम् । मुक्तिं यांति नरा वैश्य शालग्रामशिलार्चनात्
नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् । न याति वैश्य पापोऽपि शालग्रामशिलार्चकः
दीक्षाविधान मंत्रज्ञो यश्चक्रे बलिमाहरेत् । गंगा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः
निवसंति हिताः सर्वाः शालग्रामशिला जले । नैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः
गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् । कुरुते मानवो यस्तु कलौ भक्तिपरायणः
कल्पकोटिसहस्राणि रमते सन्निधौ हरेः । लिंगैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः
शालग्रामशिलायास्तु ह्येकेनाह्ना हि तत्फलम् । सकृदभ्यर्चिते लिंगे शालग्रामशिलोद्भवे
मुक्तिं प्रयांति मनुजा नूनं सांख्येन वर्जिताः । शालग्रामशिलारूपी यत्र तिष्ठति केशवः
तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश । शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः
पितरस्तस्य तिष्ठंति तृप्ताः कल्पशतं दिवि । ये पिबंति नरा नित्यं शालग्रामशिलाजलम्
पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् । कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम्
तोयं यदि पिबेत्पुण्यं शालग्रामशिलांगजम् । शालग्राम शिला यत्र तत्तीर्थं योजनत्रयम्
तत्र दानं च होमं च सर्वं कोटिगुणं भवेत् । शालग्रामशिला तोयं यः पिबेद्बिंदुना समम्
मातृस्तन्यं पुनर्नैव स पिबेद्विष्णुभाङ्नरः । शालग्राम समीपे तु क्रोशमात्रं समंततः
कीटकोपि मृतो याति वैकुंठं भवनं परम् । शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम्
भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम् । शालग्रामशिलाया यो मूल्यमुत्पादयेन्नरः
विक्रेता चानुमंता यः परीक्षासु च मोदते । ते सर्वे नरकं यांति यावदाभूतसंप्लवम्
ततः संवर्जयेद्वैश्य चक्रस्य क्रयविक्रयम् । बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा
स्मरणं वासुदेवस्य सर्वपापहरं हरेः । तपस्तप्त्वा नरो घोरमरण्ये नियतेंद्रियः
यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम् । कृत्वापि बहुशः पापं नरो मोहसमन्वितः
न याति नरकं गत्वा सर्वपापहरं हरिम् । पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् । देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः
न तेषां यमसालोक्यं न ते स्युर्नरकौकसः । वैष्णवः पुरुषो वैश्य शिवनिंदां करोति यः
न विंदेद्वैष्णवं लोकं स याति नरकं महत् । उपोष्यैकादशीमेकां प्रसंगेनापि मानवः
न याति यातनां यामीमिति लोमशतः श्रुतम् । नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते
उभयं पद्मनाभस्य दिनं पातकनाशनम् । तावत्पापानि देहेऽस्मिन्वसंतीह विशांवर
यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् । अश्वमेधसहस्राणि राजसूयशतानि च
एकादश्युपवासस्य कलां नार्हंति षोडशीम् । एकादशेंद्रियैः पापं यत्कृतं वैश्य मानवैः
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् । एकादशीसमं किंचित्पुण्यं लोके न विद्यते