यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे । राजसूयसहस्रेण तेनेष्टं प्रतिवासरे
सदामनंति वेदांता ब्रह्मनिर्वाणमच्युतम् । तत्प्रसादो भवेन्नॄणां शालग्रामशिलार्चनात्
महाकाष्ठस्थितो वह्निर्मखस्थाने प्रकाशते । यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते
अपि पापसमाचाराः कर्म्मण्यनधिकारिणः । शालग्रामार्चका वैश्य नैव यांति यमालयम्
न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः । शालग्रामशिलाचक्रे यथा स रमते सदा
अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा । येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे
शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः । विधिवत्पूजिता येन तस्य पुण्यं वदामि ते
कोटिद्वादशलिंगैस्तु पूजितैः स्वर्णपंकजैः । यत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत्
यः पुनः पूजयेद्भक्त्या शालग्रामशिला शतम् । उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते
कामैः क्रोधैः प्रलोभैश्च व्याप्तो यत्र नराधमः । सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात्
यः पूजयेच्च गोविंदं शालग्रामे मुदा नरः । आभूतसंप्लवं यावन्न स प्रच्यवते दिवः
विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम् । मुक्तिं यांति नरा वैश्य शालग्रामशिलार्चनात्
नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् । न याति वैश्य पापोऽपि शालग्रामशिलार्चकः
दीक्षाविधान मंत्रज्ञो यश्चक्रे बलिमाहरेत् । गंगा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः
निवसंति हिताः सर्वाः शालग्रामशिला जले । नैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः
गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् । कुरुते मानवो यस्तु कलौ भक्तिपरायणः
कल्पकोटिसहस्राणि रमते सन्निधौ हरेः । लिंगैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः
शालग्रामशिलायास्तु ह्येकेनाह्ना हि तत्फलम् । सकृदभ्यर्चिते लिंगे शालग्रामशिलोद्भवे
मुक्तिं प्रयांति मनुजा नूनं सांख्येन वर्जिताः । शालग्रामशिलारूपी यत्र तिष्ठति केशवः
तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश । शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः
पितरस्तस्य तिष्ठंति तृप्ताः कल्पशतं दिवि । ये पिबंति नरा नित्यं शालग्रामशिलाजलम्
पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् । कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम्
तोयं यदि पिबेत्पुण्यं शालग्रामशिलांगजम् । शालग्राम शिला यत्र तत्तीर्थं योजनत्रयम्
तत्र दानं च होमं च सर्वं कोटिगुणं भवेत् । शालग्रामशिला तोयं यः पिबेद्बिंदुना समम्
मातृस्तन्यं पुनर्नैव स पिबेद्विष्णुभाङ्नरः । शालग्राम समीपे तु क्रोशमात्रं समंततः
कीटकोपि मृतो याति वैकुंठं भवनं परम् । शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम्
भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम् । शालग्रामशिलाया यो मूल्यमुत्पादयेन्नरः
विक्रेता चानुमंता यः परीक्षासु च मोदते । ते सर्वे नरकं यांति यावदाभूतसंप्लवम्
ततः संवर्जयेद्वैश्य चक्रस्य क्रयविक्रयम् । बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा
स्मरणं वासुदेवस्य सर्वपापहरं हरेः । तपस्तप्त्वा नरो घोरमरण्ये नियतेंद्रियः